________________
७४०
उत्तरज्झयणाणि-२ भिक्षाचर्यामाह
अट्ठविहगोयरग्गं तु तहा सत्तेव एसणा ।
अभिग्गहा य जे अन्ने भिक्खायरियमाहिया ॥२५॥ व्याख्या-अष्टविधोऽष्टप्रकारोऽग्रः प्रधान आधाकर्मादिपरिहारेण गोचरो गोरिव चरणं पर्यटनमष्टविधाग्रगोचरः 'तुः समुच्चये' तथा सप्तैवैषणाः । अभिग्रहाश्च येऽन्ये एतदतिरिक्तास्ते किम् ? इत्याह-भिक्षाचर्या वृत्तिसक्षेपापरनामिका आख्याता उक्ता । अत्र चाऽष्टाग्रगोचरभेदाः पेटादय एव प्रागुक्ताः षट् शम्बूकावर्ताया द्वैविध्याश्रयणात् ऋज्वाद्याश्चापरायाः प्रक्षेपादष्ट । सप्तैषणाश्चेमा
__ "संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव ।
उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया" ॥१॥ अभिग्रहाश्च द्रव्यादयस्तत्र द्रव्यतः कुन्ताग्रादिस्थितं मण्डकादि, क्षेत्रतो देहली पादान्तरे कृत्वा, कालतः सर्वभिक्षाचरेषु भिक्षातो निवृत्तेषु, भावतो हसन् रुदन् वा बद्धो वेत्येवं यदि दास्यति तर्हि ग्रहीष्यते इत्येवमादयः । सामान्येनाभिग्रहयुक्ता वा सप्तैषणा अष्ट स्युरिति ॥२५॥ रसपरित्यागमाह
खीर-दहि-सप्पिमाई पणीयं पाण-भोयणं ।
परिवज्जणं रसाणं तु भणियं रसविवज्जणं ॥२६॥ व्याख्या-क्षीरं दुग्धं दधि प्रतीतं सर्पिघृतं तदादि 'आदिशब्दाद् गुरुपक्वान्नादिपरिग्रहः' प्रणीतमतिबंहकं पानं खजूररसादि भोजनं गलद्विन्द्वोदनादि 'अनयोर्द्वन्द्वे' पानभोजनमेषां परिवर्जनं किम्भूतानां ? रस्यमानत्वेन रसानां 'तुः पूरणे' भणितमर्हदादिभिरिति रसविवर्जनं नाम बाह्यं तप इति ॥२६॥ कायक्लेशमाह
ठाणा वीरासणाईया जीवस्स उ सुहावहा ।
उग्गा जहा धरिज्जंति कायकिलेसं तमाहियं ॥२७॥ व्याख्या-स्थानानि कायावस्थितिभेदा वीरासनं यत् सिंहासनस्थस्य तदपनयने तथैवावस्थानं तदादिर्येषां तानि वीरासनादीनि 'आदिशब्दाद् गोदोहिकासनादि' 'लोचाधुपलक्षणं चैतत्' । तथोक्तम्
१. संसृष्टाऽसंसृष्टे उद्धृता तथाऽल्पलेपा चैव ।
उद्ग्रहिका प्रग्रहिका उज्झितधर्मा च सप्तमी ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org