________________
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम्
व्याख्या - अथवा तृतीयायां पौरुष्यामूनायां ग्रासमाहारमेषयंस्त्रिविधैषणया गवेषयन् चतुर्भागोनायां 'वाशब्दात् पञ्चादिभागोनायां' तृतीयपौरुष्यामेवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण 'चरन्नित्यनुवर्तते' कालेन तु भवेदवमौदर्यमौत्सर्गिक विधिविषयमेतदुत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनस्यानुज्ञातत्वात् ॥ २१ ॥
भावावमौदर्यमाह—
इत्थी वा पुरिसो वा अलंकिओ वा णलंकिओ वा वि । अन्नयरवत्थो वा अन्नतरेणं च वत्थेणं ॥२२॥
अन्नेण विसेसेणं वन्नेणं भावमणुमुअंतो उ । एवं चरमाणो खलु भावोमाणं मुणेयव्वं ॥२३॥
अनयोर्व्याख्या—स्त्री वा पुरुषो वाऽलङ्कृतः कटकाद्यलङ्कारभूषितोऽनलङ्कृतो वाऽपि । अन्यतरवयस्थो वा बाल्याद्यपेक्षया । अन्यतरेण वा पट्टकूलादिवस्त्रेणोपलक्षितः || अन्येन विशेषेण कुपित - प्रहसितादिनावस्थाभेदेन, वर्णेन श्वेतादिनोपलक्षितः, भावं पर्यायमुक्तरूपमलङ्कृतत्वादि 'अणुमुअंतो' त्ति 'तुरेवार्थे' अनुन्मुञ्चनेवात्यजन्नेव यदि दाता दास्यति ततोऽहं ग्रहीष्ये नान्यथेति भावः । एवं चरन् खलुनिश्चयेन' 'भावोमाणं' ति भावावमत्वम् 'अर्थादुदरस्य' मुणितव्यं ज्ञातव्यमिति गाथाद्वयार्थः ॥२२-२३॥
पर्यवावमौदर्यमाह
दव्वे खित्ते काले भावंमि य आहिया उ जे भावा । एएहि उमचरओ पज्जवचरओ भवे भिक्खू ॥२४॥
७३९
व्याख्या- द्रव्येऽशनादौ क्षेत्रे ग्रामादौ काले पौरुष्यादौ भावे स्त्रीत्वादावाख्याताः कथितास्तु ये भावाः पर्याया एकसिक्थोनत्वादय एतैः सर्वैरपि द्रव्यादिपर्यायैः 'उम'त्ति अवमम् 'अर्थादवमौदर्यं चरत्यासेवते इत्यवमचरकः पर्यवचरको भवेद् भिक्षुः । को भावः ? एकसिक्थोनत्वादावपि ग्राम - पौरुषी - स्त्रीत्वादिष्वपि नव - पुराणादिविशिष्टाभिग्रहतः पूर्वस्मादूनत्वं भावनीयम् । इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमिति । यत्रापि च द्रव्यतो न्यूनतोदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याण्यवसेयानि ॥ २४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org