SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ७३८ उत्तरज्झयणाणि-२ सम्बद्धगृहभ्रमणवतीत्यर्थः २। गोमूत्रिका गोमूत्राकारेण वक्रपरिभ्रमणरूपा । उक्तं च "वामाउ दाहिणगिहे भिक्खइ तो दाहिणाउ वामाए । पुणरवि दाहिण-वामाइ जीए सा होइ गोमुत्ती" ॥ ३ ॥१॥ पतङ्गवीथिकाऽनियता पतङ्गः शलभस्तदुड्डयनसदृशा ४। शम्बूकः सङ्खस्तद्वदावर्तो यस्यां सा शम्बूकावर्ता सा द्विविधा आभ्यन्तरा बाह्या च । तत्राभ्यन्तरशम्बूका अभ्यन्तरात् शङ्खनाभिक्षेत्रोपमाद्याकृत्याऽन्तर्मध्यत आरभ्य भिक्षायां चरन् बाह्यतो निवर्तते । द्वितीया विपर्ययाद् विज्ञेया । उक्तं च “अब्भितरसंबुक्का मज्झा भमिरो बहिं विणिस्सर । तव्विवरीया भण्णइ बहिसंबुक्का य भिक्ख त्ति" ॥ ५ ॥१॥ आयतगतप्रत्यागता तत्रायतं दीर्घ प्राञ्जलमित्यर्थः । सरलतया गत्वा निवर्तत इति षष्ठी ६। किञ्चाग्रगोचरत्वरूपत्वाद् भिक्षाचर्यात्वेऽप्यासामवमौदर्यमस्त्वित्यभिसन्धिना विधीयमानत्वादवमौदर्यव्यपदेशोऽप्यदुष्ट एव निमित्तभेदादेकत्रापि पुरुषे पितृ-पुत्रादिव्यपदेशवत् । एवं पूर्वं ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गेऽपि इदमेवोत्तरं वाच्यम् ॥१९॥ कालावमौदर्यमाह दिवसस्स पोरिसीणं चउण्हं पि उ जत्तिओ भवे कालो । एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥२०॥ व्याख्या-दिवसस्य पौरुषीणां प्रहराणां चतसृणामपि 'तुः प्राग्वत्' यावद् भवेत् कालोऽर्धप्रहरादिकः 'अभिग्रहविषय इति शेषः' । एवं 'प्रक्रमात् तेन कालेन' 'चरमाणो' त्ति चरतः खलु निश्चितं 'कालोमाणं' ति कालेन हेतुनाऽवमत्वं 'प्रक्रमादुदरस्य' कालावमौदर्यं मुणितव्यं ज्ञातव्यम् ॥२०॥ एतदेव प्रकारान्तरेणाह अहवा तइयाए पोरिसीए ऊणाइ घासमेसंतो । चउभागूणाए वा एवं कालेण ऊ भवे ॥२१॥ १. वामाद् दक्षिणगृहे भिक्षते ततो दक्षिणाद् वामायाम् । पुनरपि दक्षिण-वामायां यस्यां सा भवति गोमूत्रिका ॥१॥ २. अभ्यन्तरशम्बूका मध्ये भ्रमन् बहिर्विनिःसरति । तद्विपरीता भण्यते बहिःशम्बूका च भिक्षेति ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy