________________
७३७
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् 'यत्-तदोनित्याभिसम्बन्धात्' तस्यैव द्रव्येणोपाधिभूतेन भवेदवमौदर्यमिति ॥१५॥ क्षेत्रावमौदर्यमाह
गामे नगरे तह रायहाणि-निगमे य आगरे । पल्ली-खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥१६॥ आसमपए विहारे संनिवेसे समाय-घोसे य । थलि-सेणा-खंधारे सत्थे संवट्ट-कोट्टे य ॥१७॥ वाडेसु व रत्थासु व घरेसु वा एवमेत्तियं खित्तं ।
कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥१८॥ __ आसां व्याख्या-ग्रसते गुणान् गम्यो वाऽष्टादशानां कराणामिति वा ग्रामः । नात्र कराः सन्तीति नगरम् । तथा राजधानी राज्ञः पीठस्थानम् । निगमः प्रभूतवणिग्निवासः । आकरः स्वर्णाद्युत्पत्तिस्थानम् । पल्ली वृक्षगहनाश्रिता प्रान्तजनस्थानं चोरादिस्थानम् । खेटं धूलिप्राकारपरिक्षिप्तम् । कर्बटं कर्बटजनावासं कुनगरमित्यर्थः । द्रोणमुखं जल-स्थलनिर्गम-प्रवेशं यथा भृगुकच्छम् । पत्तनं तु यत्र सर्वदिग्भ्यो जनाः पतन्ति तच्च द्विभेदं जलमध्यवर्ति स्थलमध्यवर्ति च । मडम्बं यस्य सर्वदिश्वर्धतृतीययोजनान्तर्ग्रामो न स्यात् । सम्बाधः प्रभूतचातुर्वर्ण्यनिवासः 'सर्वत्र द्वन्द्वः' तस्मिन् । आश्रमपदं तापसाश्रयोपलक्षितं स्थानम् । विहारो देवगृहम् सन्निवेशो यात्राद्यायातजनावासः । समाजः परिषत् । घोषो गोकुलम् । स्थली उच्चभूभागः । सेना चतुरङ्गबलसमूहः । स्कन्धावारः स एवाशेषखेडाद्यङ्गोपलक्षितः प्रतीतः । संवों भयत्रस्तजनसमवायः । कोट्टं प्राकारम् । 'अत्रापि समाहारः' तस्मिन् ॥ वाटेषु वृत्यादिपरिक्षिप्तगृहसमूहेषु । रथ्यासु सेरिकासु । गृहेषु प्रसिद्धेसु 'सर्वत्र वा विकल्पे' एवंप्रकारेण 'एत्तियंति एतावद् विवक्षितनियतपरिमाणं क्षेत्रं कल्पते उपयोगं याति 'पर्यटितुमिति शेषः' एवमादि 'आदिशब्दात् गृहशालादिपरिग्रहः' । एवमित्यूनत्वेनाभिग्रहलक्षणेन क्षेत्रेण क्षेत्रविषयं 'तुः पूरणे' भवेद् 'अवमौदर्यमिति प्रक्रमः' इति गाथात्रयार्थः ॥१६-१७-१८॥ प्रकारान्तरेण क्षेत्रावमौदर्यमाह
पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव ।
संबुक्कावट्टाऽऽययगंतुंपच्चागया छट्ठा ॥१९॥ व्याख्या-पेटा पेटिका इव चतुष्कूणा । ततश्च यत्र चतुःश्रेणिव्यवस्थितगृहं पङ्क्तिषु भ्रम्यते मध्यगृहाणि मुच्यन्ते सा पेटेत्यर्थः १। अर्धपेटा इयमेवार्धसंस्थिता द्विकूणा श्रेणिद्वय
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org