________________
उत्तरज्झयणाणि - २
व्याख्या - अथवा सह परिकर्मणा स्थान- निषदन - त्वग्वर्तनादिना वर्तत इति सपरिकर्म तदितरदपरिकर्म चाख्यातं कथितम् । तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च । प्रथमे स्वयमन्येन वा कृतस्य । द्वितीये स्वयं कृतस्यैवोद्वर्तनादिचेष्टारूपपरिकर्मणाऽनुज्ञानात् । यद्वा संलेखनापरिकर्म यत्र तत् सपरिकर्म तद्विपरीतं त्वपरिकर्म । तथा निर्हारो गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्निर्गमनं तद् विद्यते यत्र तन्निर्हारि । यदुत्थातुकामे व्रजिकादौ क्रियते तदनिर्हारि इदं निर्हारिमानिर्हारिमस्वरूपं बृहट्टीकायां स्थानाङ्गटीकायां तु इदमुक्तम् - यद् वसतेरेकदेशे विधीयते तत् ततः शरीरस्य गर्हणान्निः सारणान्निहरिमं यत् पुनर्गिरिकन्दराऽऽदौ विधीयते [ तत् ] ततः शरीरस्य अनि:सारणादनिर्हारिमम् । परमार्थं तु बहुश्रुता विदन्ति । एतच्च प्रकारद्वयमपि पादपोपगमनविषयम् । आहारच्छेदश्च द्वयोरपि सपरिकर्मापरिकर्मणोर्निर्हार्यनिर्हारिणोश्च 'सम इति शेषः' ॥१३॥
1
ऊनोदरतामाह
७३६
उमोयरिणं पंचहा समासेण वियाहियं ।
दव्वओ खित्त - कालेणं भावेणं पज्जवेहि य ॥ १४ ॥
व्याख्या - अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमोदरता न्यूनोदरता पञ्चधा समासेन सङ्क्षेपेण व्याख्याता । पञ्चधात्वमेवाह - द्रव्यतः, क्षेत्रं च कालश्च क्षेत्र - कालं तेन, भावेन, पर्यायैश्चोपाधिभूतैः 'अत्र हेतौ पञ्चमी तृतीया च ' ॥१४॥
तत्र द्रव्यत आह
जो जस्स उ आहारो तत्तो उमं तु जो करे ।
जहनेणेगसित्थाई एवं दव्वेण उ भवे ॥ १५॥
व्याख्या - यो यस्य 'तुः पूरणे' पुंसो द्वात्रिंशत्कवलमानः, स्त्रियस्त्वष्टाविंशतितन्मान आहारो भोजनम्, ततः स्वाहारादवमं ऊनं 'तुः प्राग्वत्' यः कुर्याद् 'भुञ्जान इति शेष:' । जघन्येनैकसिक्थकं यत्रैकमेव सिक्थं भुज्यते । आदिशब्दात् सिक्थद्वयारादभ्य यावदेककवलभोजनमेतच्चाल्पाहाराख्यमवमौदर्यमाश्रित्योक्तम्, इदं चाष्टकवलान्तं १ | नवकादारभ्य द्वादशभिः कवलैरपार्धाख्यम् २। त्रयोदशकादारभ्य षोडशान्तं द्विभागाख्यम् ३। सप्तदशकादारभ्य चतुर्विंशतितत्पर्यन्तं प्राप्ताख्यम् ४। पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलभोजनं किञ्चिदूनमवमौदर्यम् ५। इत्येवं पञ्चविधमवमौदर्यमिति । उक्तं च ।
"अप्पाहार अवड्डा दुभाग पैत्ता तेहेव किंचूणा । अट्ठ देवालस सोलस चवीस हेक्कतीसा य" ॥१॥
44
अल्पाहारापार्ध-द्विभाग-प्राप्तं तथैव किञ्चिदूनम् ५ । अष्ट द्वादश षोडश चतुर्विंशतिस्तथैकत्रिंशच्च ॥१॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org