________________
७३५
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् ४०९६ एतदुपलक्षितं तपो वर्गतपः ॥१०॥
तत्तो य वग्गवग्गो उ पंचमो छट्ठओ पइन्नतवो ।
मणइच्छियचित्तत्थो नायव्वो होइ इत्तरिओ ॥११॥ व्याख्या-ततश्च वर्गतपोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः 'तुः समुच्चये' पञ्चमम् । अत्र च वर्ग एव वर्गेण गुणितो वर्गवर्गो भवति यथा चैककोटि: सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके अङ्कतः १६७७७२१६ एतदुपलक्षितं तपो वर्गवर्गतप इति । एवं पञ्चादिपदेष्वपि भावना कार्या । तथा षष्ठकं प्रकीर्णतपो यच्छेण्यादिनियतरचनारहितं स्वशक्त्यपेक्षं नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्य-चन्द्रप्रतिमादि वेति । उपसंहारमाह-'मणइच्छियचित्तत्थो' त्ति मनस ईप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिषु यस्मात् तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवतीत्वरकं 'प्रक्रमादनशनाख्यं तप इति' ॥११॥ मरणकालमनशनमाह
जा साऽणसणा मरणे दुविहा सा वियाहिया ।
सवियारमवियारा कायचेहँ पई भवे ॥१२॥ व्याख्या-'सुब्ब्यत्ययाद्' यदनशनं मरणे मरणावसरे द्विविधं तत् व्याख्यातं कथितम् 'अर्हदादिभिरिति गम्यम्' । द्वैविध्यमाह-सह विचारेण मनो-वाक्-कायभेदचेष्टारूपेण वर्तते यत् तत् सविचारं तद्विपरीतमविचारम् । विशेषार्थमाह-कायचेष्टामुद्वर्तनपरिवर्तनादिकां कायप्रवीचारं प्रतीत्याश्रित्य भवेत् तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च । तथाहि-भक्तप्रत्याख्याने गच्छस्थो गुरुदत्तालोचनो मरणायोद्यतो विधिना कृतसंलेखनस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय त्यक्तदेहाधुपकृतिममत्वः स्वयमेवोच्चार्यमाणान्यसाध्वादिदीयमाननमस्कारो यथाशक्ति यथासमाधि स्वयमुद्वर्तते परिवर्तते वाऽसत्यां च शक्ती परैरपि समाधिजनकं तत् कारयति । इङ्गिनीमरणमप्युक्तन्यायेन प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानः स्थण्डिलस्यान्तश्छायात उष्णमुष्णाच्च च्छायां स्वयं सङ्क्रामत्युद्वर्तनादिचेष्टां च करोति नान्येन कारयतीत्येतद्द्वयं सविचारम् । अविचारं तु पादपोपगमनं तत्र यो विधिवद् देवान् गुरून् नत्वा कृतचतुर्विधाहारप्रत्याख्यानः सर्वत्राप्रतिबद्धो दण्डायादिस्थानस्थो गिरिकन्दरादिषु पादपवन्निश्चेष्टस्तिष्ठति तस्य तद् भवति ॥१२॥ प्रकारान्तरेण पुनद्वैविध्यमाह
अहवा सपरिकम्मा अपरिकम्मा य आहिया । नीहारिमनीहारि आहारछेओ य दोसु वि ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org