________________
उत्तरज्झयणाणि - २
व्याख्या - इत्वरमेवेत्वरिकं नियतकालावधिकमित्यर्थः । मरणावसानः कालो यस्य तन्मरणकालं ‘मध्यपदलोपी समासः' यावज्जीवमित्यर्थः । अशनमाहारश्चतुर्विधो देशतः सर्वतो वा तदभावोऽनशनं तच्च द्विविधं भवेत् । तत्रेत्वरिकं सहावकाङ्क्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्तते इति सावकाङ्क्षम् । निरवकाङ्क्ष तज्जन्मनि भोजनाशंसाऽभावात् द्वितीयं पुनर्मरणकालाख्यं 'प्राकृतत्वात् सर्वत्र स्त्रीलिङ्गत्वम्' ॥९॥
७३४
इत्वरिकानशनभेदानाह
जो सो इत्तरियतवो सो समासेण छव्विहो । सेढितवो पयरतवो घणो य तह होइ वग्गो य ॥१०॥
व्याख्या-यद् तदित्वरकं तप इत्वरानशनरूपं तत् समासेन सङ्क्षेपण षड्विधं, विस्तरेण बहुतरभेदमिति भावः । षड्विधत्वमेवाह – 'सेढि' श्रेणिः पङ्क्तिः तदुपलक्षितं तपः श्रेणितपस्तच्चतुर्थादिक्रमेण क्रियमाणमिह षण्मासान्तं परिगृह्यते । तथा वि श्रेण्या गुणिता प्रतरस्तदुपलक्षितं तपः प्रतरतपः इह चाव्यामोहार्थं चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्या सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्यायं स्थापनोपायः ।
"एकाद्याद्या व्यवस्थाप्याः पङ्क्तयोऽत्र यथाक्रमम् । द्वितीयाद्याः क्रमादेताः पूरयेदेककादिभिः " ॥१॥
१ च २ ष ३ ऽष्ट ४
२
३ ४
१
एक आद्योऽस्यां सा एकाद्या पङ्क्तिः सा आद्या यासु ता एकाद्याद्या व्यवस्थाप्या न्यस्याः । पङ्क्तयः श्रेणयो यथाक्रमं क्रमानतिक्रमेण । कोऽर्थः ? प्रथमा एकाद्या एककादारभ्य स्थाप्यते । एवं द्वितीयाद्याद्या द्विकादारभ्य । तृतीया त्रिकादारभ्य । चतुर्थी चतुष्कादारभ्य व्यवस्थाप्यते । एवं प्रथमां पङ्क्तिं प्रपूर्य द्वितीयाद्याः पङ्क्तीः क्रमात् प्राक् स्थापिताङ्काग्रे एककादिभिः पूरयेत् पूर्णाः कुर्यात् । कोऽर्थः ? द्वितीयपङ्क्तौ द्विक-त्रिक-चतुष्कानामग्रे एककः । तृतीयपङ्क्तौ त्रिक - चतुष्कयोरन्ते एकको द्विकश्च । चतुर्थपङ्क्तौ चतुष्काग्रे एकक - द्विक- त्रिकाः स्थाप्यन्ते । स्थापना चेयम् । तथा घन इति घनतपः 'चः पूरणे' तथा 'भवतीति क्रिया ४ प्रतितपः प्रयोज्या' । अत्र च षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टि, स्थापना तु पूर्विकैव, नवरं बाहुल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः । एतदुपलक्षितं तपो घनतप इति । वर्ग इति वर्गतपस्तत्र घन एव घनेन गुणितो वर्गो भवति । ततश्चतुःषष्टिश्चतुःषष्ट्यैव गुणिता जातानि षण्नवत्यधिकानि चत्वारि सहस्राणि
३
४
१
२
२
३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org