________________
७३३
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् अत्र दृष्टान्तमाह
जहा महातलागस्स संनिरुद्धे जलागमे ।
उस्सिचणाए तवणाए कमेणं सोसणा भवे ॥५॥ व्याख्या-यथा महातडागस्स सन्निरुद्धे पाल्यादिना निषिद्धे जलागमे जलप्रवेशे 'उस्सिचणाए'त्ति सूत्रत्वादुत्सेचनेनारघट्टघट्यादिभिरुदञ्चनेन 'तवणाए'त्ति तपनेन रविकरसन्तापरूपेण क्रमेण परिपाट्या शोषणा जलाभावरूपा भवेत् ॥५॥ दालन्तिकमाह
एवं तु संजयस्सावि पावकम्मे निरासवे ।
भवकोडीसंचियं कम्मं तवसा निज्जरज्जई ॥६॥ व्याख्या-एवं 'तु पुनः' संयतस्यापि पापकर्मणां निराश्रवे प्राणिवधाद्याश्रवाभावे भवकोटीसञ्चितं कर्म तपसा निर्जीर्यते आधिक्येन क्षयं नीयते । अत्र कोटीग्रहणं बहुत्वोपलक्षणं कोटीनियमासम्भवात् ॥६।। तपोभेदानाह
सो तवो दुविहो वुत्तो बाहिरभितरो तहा ।
बाहिरो छव्विहो वुत्तो एवमभितरो तवो ॥७॥ व्याख्या-तदनन्तरं प्रक्रान्तं प्रस्तावोपपन्नं तपो द्विविधमुक्तं बाह्य तथा आभ्यन्तरम् । तत्र बाह्यं षड्विधमुक्तम् । एवमिति यथा बाह्यं षड्विधं तथा आभ्यन्तरमपि षविधं तपः। शेषं स्पष्टम् । 'सर्वत्र सूत्रत्वाल्लिङ्गव्यत्ययः' । किञ्च बाह्यं बाह्यद्रव्याद्यपेक्षया, प्रायो मुक्त्यवाप्तिबहिरङ्गतया च, तद्विपरीतमाभ्यन्तरं, यदि वा लोकप्रतीतत्वात् कुतीथिकैश्च स्वाभिप्रायेणासेव्यमानत्वात् बाह्यं, तदितरच्चाभ्यन्तरमिति ॥७॥ षड्विधं तदाह
अणसणमूणोयरिया भिक्खायरिया य रसपरिच्चाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ ॥८॥ व्याख्या अक्षरार्थः स्पष्ट एव ॥८॥ भावार्थं तु प्रतिभेदमेतेषां स्वरूपत इवाह
इत्तरिय-मरणकाला अणसणा दुविहा भवे । इत्तरिय सावकंखा निरवकंखा बिइज्जिया ॥९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org