________________
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम्
इह प्रागध्ययनेऽप्रमाद उक्तस्तद्वता तपोविधेयमिति तत्स्वरूपाभिधायकं त्रिंशत्तममारभ्यते
जहा उ पावयं कम्मं राग-दोससमज्जियं ।
खवेइ तवसा भिक्खू तमेगग्गमणो सुण ॥१॥
व्याख्या- यथा येन प्रकारेण 'तुरवधारणे' पापकं कर्म ज्ञानावरणीयादि राग- -द्वेषाभ्यां समर्जितमुपात्तं क्षपयत्येव तपसा भिक्षुस्तदेकाग्रमनाः सावधानचित्तः शृणु शिष्य ! ॥१॥ अनाश्रवेणैव किल कर्म क्षिप्यते इति तमाह
पाणिवह-मुसावाए- अदत्त- मेहुण - परिग्गहा विरओ । राईभोयणविरओ जीवो भवइ अणासवो ॥२॥
पंचसमिओ तिगुत्तो अकसाओ जिइंदिओ ।
अगारवो य निस्सल्लो जीवो भवइ अणासवो ॥३॥
अनयोर्व्याख्या - प्राणिवधादिभ्यो विरतो जीवो भवत्यनाश्रवोऽविद्यमानकर्मोपादानहेतुः ॥ तथा पञ्चसमित्यादिसहितोऽपि जीवोऽनाश्रवः समित्यादिविपर्ययस्य कर्मोपादानहेतुत्वेनाश्रवरूपत्वात् तदभावादना श्रवत्वम् । शेषं सुगमम् । इति गाथाद्वयार्थः ॥२-३॥
एवंविधश्च यथा कर्म क्षपयति तथाह
एएसिं तु विवच्चासे राग-द्दोससमज्जियं । खवेइ जं जहाकम्मं तं मे एगमणो सुण ॥४॥
व्याख्या
- एतेषां तु प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां 'विवच्चासे 'त्ति विपर्यासे प्राणिवधादावसमितत्वादौ च राग-द्वेषाभ्यां समर्जितं 'कर्मेति गम्यते' तद् यथा क्षपयति तन्मे कथयत एकाग्रमनाः शृण्विति ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org