________________
७३०
उत्तरज्झयणाणि-२ प्रतिपूर्ण सकलस्व-परपर्यायप्रतिपूर्णवस्तुप्रकाशकत्वात् । निरावरणं निःशेषावरणविगमात् । वितिमिरं तस्मिन् सत्यज्ञानतिमिराभावात् । विशुद्धं सर्वदोषापगमात् । लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात् । केवलमसहायं वरं शेषज्ञानापेक्षया ज्ञानं च दर्शनं च केवलवरज्ञान-दर्शनं समुत्पादयति जनयति 'आत्मन इति गम्यम्' । स च यावत् सयोगी मनो-वाक्-कायव्यापारवान् भवति तावच्च किम् ? इत्याह-ईर्या गतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमैर्यापथिकं 'उपलक्षणं च पथिग्रहणं' तिष्ठतोऽपि सयोगस्येर्यासम्भवात्, सम्भवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चारा इति । तदेवं पथि तिष्ठन्नैपथिकं कर्म बध्नाति तत् कीदृग् ? इत्याह-सुखयतीति सुखः स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्शम्, द्वौ समयौ यस्याः सा द्विसमया स्थितिरस्येति द्विसमयस्थितिकं, तत् प्रथमसमये बद्धमात्मसात् कृतं 'स्पर्शाविनाभावित्वाच्च स्पृष्टं च', द्वितीयसमये वेदितमनुभूतं, तृतीये समये निजीर्णं परिशटितं तदुत्तरकालस्थितेः कषायहेतुत्वात् । अतस्तद् बद्धं जीवप्रदेशैः श्लिष्टं व्योम्ना पटवत् तथा स्पृष्टं मसृणमणिकुड्यपतिततशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह । उदीरितमुदयप्राप्तमुदीरणायास्तत्रासम्भवाद्, वेदितं तत्फलसुखानुभवनेन, निजीण क्षयमुपगतं, 'सेअकाले' त्ति सूत्रत्वादेष्यत्काले चतुर्थसमयादावकर्म चापि भवति । तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् ॥७१।।
शैलेश्यकर्मताद्वारद्धयमर्थतो व्याचिख्यासुराह
अहाउयं पालइत्ता अंतोमुहुत्तावसेसाऊए जोगनिरोहं करेमाणे सुहुमकिरियं अप्पडिवाइ सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं निरंभइ । वयजोगं निरंभइ । आणापाणनिरोहं करेइ । ईसि पंचरहस्सक्खरुच्चारद्धाए य णं अणगारे समुच्छिन्नकिरियं अणियट्टिसुक्कज्झाणं ज्झियायमाणे वेयणिज्जं आउयं नाम गोयं एए चत्तारि कम्मंसे खवेइ । तओ ओरालियकम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उ8 एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणं अंतं करेइ ॥७२-७३॥
व्याख्या-अथ केवलावाप्त्यनन्तरमायुष्कं देशोनपूर्वकोटीमन्तर्मुहूर्तादिप्रमाणं पालयित्वाऽन्तर्मुहूर्तावशेषायुष्कः सन् योगनिरोधं 'करेमाणे'त्ति करिष्यमाणः सूक्ष्मक्रियमप्रतिपातिशुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनसो योगो मनोद्रव्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org