________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
७२९ मायाविजएणं भंते ! जीवे किं जणयइ ? । मायाविजएणं उज्जुभावं जणयइ ॥६९॥
व्याख्या-मायाविजयेन ऋजुभावं जनयति । शेषं प्राग्वत् ॥६९।।
लोभविजएणं भंते ! जीवे किं जणयइ ? । लोभविजएणं संतोसं जणयइ ॥७०॥
व्याख्या-लोभविजयेन सन्तोषभावं जनयति । शेषं तथैव ॥७०॥ एतज्जयश्च न प्रेम-द्वेषादिविजयं विना स्यादतस्तमाह
पेज्ज-दोस-मिच्छादसणविजएणं भंते ! जीवे किं जणयइ ? । पेज्ज-दोस-मिच्छादंसणविजएणं नाण-दसण-चरित्ताराहणयाए अब्भुढेइ । अट्ठविहस्स कम्मस्स कम्मगंठविमोयणयाए तह पढमयाए जहाणुपुव्वीए अट्ठावीसविहं मोहणिज्जं कम्मं उग्घाएइ । पंचविहं नाणावरणिज्जं नवविहं दसणावरणं पंचविहमंतराय एए तिन्नि वि कम्मंसे जुगवं खवेइ । तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं निरावणं वितिमिरं विसुद्धं लोगालोगप्पभावणं केवलवरनाणदंसणं समुप्पाडेइ । जाव सजोगी भवइ ताव य इरियावहियं कम्मं बंधइ । सुहफरिसं दुसमयठिइयं तं पढमसमए बद्धं बिइयसमये वेइयं तइयसमए निज्जिन्नं तब्बद्धं पुढे उईरियं वेइअं निज्जिन्नं सेअकाले अकम्मं वावि भवइ ॥७१॥
व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रतिरूपो मिथ्यादर्शनं च सांशयिकादि प्रेम-द्वेषमिथ्यादर्शनानि तद्विजयेन ज्ञान-दर्शन-चारित्राराधनायामभ्युत्तिष्ठते उद्यच्छति प्रेमादिनिमित्तत्वात् तद्विराधनायाः । ततश्चाष्टविधस्य कर्मणः 'मध्ये इति गम्यते' कर्मग्रन्थिरतिदुर्भेदघातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै ‘चस्य गम्यत्वात्' तदर्थं च 'अभ्युत्तिष्ठे इत्यनुवर्तनीयम्' । अभ्युत्थाय च किं करोति ? इत्याह-तत्प्रथमतया, न हि तेन तत् पुरा क्षपितमासीदिति । आनुपूर्व्या अनतिक्रमेण यथानुपूर्वि अष्टाविंशतिविधं मोहनीयं कर्मोद्धातयति । चरमसमये तु यत् क्षपयति तत् सूत्रकृदेवाह-पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायं 'एए' त्ति लिङ्गव्यत्ययादेतानि त्रीण्यपि 'कम्मंसे' त्ति सत्कर्माणि युगपत् क्षपयति । तत इति क्षपणात् पश्चादनन्तरमनुत्तरं प्रधानम्, अनन्तमविनाशितया विषयानन्त्याच्च, कृत्स्नं च सर्ववस्तुविषयत्वात्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org