SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ७२५ । एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् चरित्तसंपन्नयाए णं भंते ! जीवे किं ? । चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ । सेलेसिं पडिवन्ने अणगारे चत्तारि कम्मंसे खवेइ । तओ पच्छा सिज्झइ बुज्झइ ॥६१॥ ___ व्याख्या-चरित्रसम्पन्नतया शैलेशो मेरुः स इव शैलेशो मुनिनिरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था शैलेशी तस्या भावः शैलेशीभावस्तं जनयति । उक्तं हि‘सैलेसो इह मेरू सेलेसी होइ जा तहाचलया' । शैलेशीप्रतिपन्नोऽनगारश्चत्वारि केवलिसत्कर्माणि क्षपयतीत्यादि प्राग्वत् ॥६१॥ चारित्रं चेन्द्रियनिग्रहादेव स्यादिति तन्निग्रहमाह सोइंदियनिग्गहेणं भंते ! जीवे किं जणयइ ? । सोइंदियनिग्गहेणं मणुन्नामणुन्नेसु सद्देसु राग-द्दोसनिग्गहं जणयइ । तप्पच्चइयं च कम्मं न बंधइ । पुव्वबद्धं च निज्जेरड् ॥६२॥ व्याख्या-श्रोत्रेन्द्रियस्य कर्णस्य निग्रहः स्वविषयाभिमुखमनुधावतो नियमनं नियन्त्रणं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु राग-द्वेषनिग्रहं जनयति । तत्प्रत्ययिकं राग-द्वेषनिमित्तं कर्म न बध्नाति । पूर्वबद्धं 'प्रक्रमात् कर्म' निर्जरयति क्षपयति तन्निग्रहे शुभाध्यवसायप्रवृत्तेरिति भावः ॥६२।। चक्खिदियनिग्गहेणं भंते ! जीवे किं जणयइ ? । चक्खिदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु राग-द्दोसनिग्गहं जणयइ ॥६३॥ घाणेंदिए एवं चेव ॥६४॥ जिभिदिए वि तहेव ॥६५॥ फासिदिए वि एवं ॥६६॥ नवरं गंधेसु रसेसु फासेसु वत्तव्वं ॥ व्याख्या-एवं चक्षुरिन्द्रियनिग्रहेण चक्षुरिन्द्रियग्राह्येषु रूपेषु ॥६३।। तथा घ्राणेन्द्रियनिग्रहेण तद्ग्राह्येषु गन्धेषु ॥६४॥ जिह्वेन्द्रियनिग्रहेण एतद्रग्राह्येषु रसेषु ॥६५।। स्पर्शनेन्द्रियनिग्रहेण तद्ग्राह्येषु स्पर्शेषु । शेषं श्रोत्रेन्द्रियवद् विज्ञेयम् ॥६६|| एतन्निग्रहोऽपि कषायविजयात् स्यादतस्तमाह कोहविजएणं भंते ! जीवे किं जणयइ ? । कोहविजएणं खंति जणयइ । कोहवेयणिज्जं कम्मं न बंधइ । पुव्वबद्धं च निज्जरेइ ॥१७॥ १. शैलेश इह मेरुः शैलेशी भवति या तथाऽचलता । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy