________________
७२४
उत्तरज्झयणाणि-२ एवं समाधारणात्रयाद् यथाक्रमं ज्ञानादित्रयस्य शुद्धिमुक्त्वा फलमाह
नाणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? । नाणसंपन्नयाए सव्वभावाभिगमं जणयइ । नाणसंपन्ने जीवे चाउरंतसंसारकंतारे न विणस्सइ । जहा सूई ससुत्ता पडिया न विणस्सइ । तहा जीवे ससुत्ते संसारे न विणस्सइ । नाण-विणय-तव-चरित्तजोगे संपाउणइ । ससमयपरसमयसंघायणिज्जे भवइ ॥५९॥
व्याख्या-ज्ञानमिह प्रस्तावाच्छृतज्ञानं तत्सम्पन्नतया जीवः सर्वभावानामभिगमं ज्ञानं जनयति । तथा ज्ञानसम्पन्नो जीवश्चतुरन्ते संसारकान्तारे न विनश्यति । 'यथेति दृष्टान्ते' सूची ससूत्रा सुप्रापतया न विनश्यति 'कचवरादिपतिताऽपीति गम्यम्' तथा जीवः ससूत्रः सश्रुतः संसारे न विनश्यति । यतः
__ "सूई जहा ससुत्ता न नस्सइ कयवरंमि पडिया वि ।
जीवो तहा ससुत्तो न नस्सइ गओ वि संसारे" ॥१॥ तत एव ज्ञानं चावध्यादि, विनयश्च ज्ञान-विनयादिस्तपश्च वक्ष्यमाणं, चरित्र-योगाश्चारित्रव्यापारा ज्ञान-विनय-तपश्चारित्रयोगास्तान् प्राप्नोति । स्वसमय-परसमययोः सङ्घातनीयः प्रमाणपुरुषतया मीलनीयः स्वसमय-परसमयसनातनीयो भवति । स्वसमयपरसमयवेदिषु पुरुषेष्वेव संशयादिव्यवच्छेदाय मीलनसम्भवादिति भावः ॥५९॥
सणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? । सणसंपन्नयाए णं भवमिच्छत्तच्छेयणं करेइ । परं न विज्झाइ । अणुत्तरेणं नाण-दंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ ॥६०॥
व्याख्या-दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वसमन्विततया भवहेतुमिथ्यात्वस्य च्छेदनं क्षपणं करोति कोऽर्थः ? क्षायिकसम्यक्त्वमाप्नोति । ततश्च परमित्युत्तरकालमुत्कृष्टतस्तद्भवे एव मध्यम-जघन्यापेक्षया तृतीये चतुर्थे वा जन्मनि केवलोत्पत्तौ न विध्यायति न ज्ञान-दर्शनप्रकाशाभावरूपं विध्यानमाप्नोति । किन्त्वनुत्तरेण क्षायिकत्वात् प्रधानेन ज्ञान-दर्शनेनात्मानं संयोजयन् प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् । संयोजनं च भेदेऽपि स्यादत आह-सम्यग् भावयंस्तेनात्मानमात्मसान्नयन् विहरति भवस्थकेवलितया मुक्ततया वा ॥६०।।
१. सूची यथा ससूत्रा न नश्यति कचवरे पतिताऽपि ।
जीवस्तथा ससूत्रो न नश्यति गतोऽपि संसारे ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org