________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
इतश्च गुप्तित्रयाद् यथाक्रमं मनो- वाक् कायसमाधारणासम्भव इति तामाह
मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? | मणसमाहारणयाए एगग्गं जणयइ । एगग्गं जणइत्ता नाणपज्जवे जणय । नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ मिच्छत्तं विणिज्जरे ॥ ५६ ॥
व्याख्या - मनसः 'सम्' इति सम्यक् 'आङ्' इति मर्यादया श्रुतोक्तभावाप्त्या वा धारणा व्यवस्थापनं मनः समाधारणा तयैकाग्र्यं जनयति । ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् विशिष्टवस्तुतत्त्वावबोधरूपान् जनयति । ज्ञानपर्यवान् जनयित्वा सम्यक्त्वं विशोधयति मिथ्यात्वं च निर्जरयति ॥५६॥
७२३
वयसमाहारणयाए णं भंते ! जीवे किं जणयइ ? । वयसमा - हारणयाए णं वयसाहारणदंसणपज्जवे विसोहेइ । वयसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहियत्तं निव्वत्तेइ दुलहबोहियत्तं निज्जरे ॥५७॥
व्याख्या-वाक्यसमाधारणया स्वाध्याय एव वाग्निवेशनात्मिकया, वाचा साधारणा वाक्साधारणा ये वचसोऽपि विषयाः प्रज्ञापनीया इत्यर्थः 'अवाग्विषयाणामन्यथात्वासम्भवेन शोधनानुपपत्तेः' तादृशाश्च ते दर्शनपर्यवाश्च सम्यग्भेदारूपा वाक्साधारणदर्शनपर्यवास्तान् विशोधयति शङ्कादिमालिन्यापनयनेन विशुद्धान् निर्मलान् करोति । वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभबोधिकत्वं निर्वर्तयति । तत एव दुर्लभबोधिकत्वं निर्जरयति ॥५७॥
कायसमाहारणयाए णं भंते ! जीवे कि जणयइ ? । कायसमाहारणयाए चरित्तपज्जवे विसोहेइ । चरित्तपज्जवे विसोहइत्ता अहक्खायचरितं विसोहे । अहक्खायचरितं विसोहित्ता चत्तारि केवलिकम्मंसे खवे । तओ पच्छा सिज्झइ बुझइ ॥ ५८ ॥
व्याख्या-कायसमाधारणया संयमयोगेषु देहस्य सम्यग्व्यवस्थापनरूपया चरित्र - पर्यवान् चारित्रभेदान् 'क्षायोपशमिकानिति गम्यते' विशोधयति निर्मलीकरोति । चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति चारित्रमोहोदयनिर्जरणेन निर्मलीकुरुते । यथाख्यातचारित्रं विशोध्य चत्वारि केवलिसत्कर्मांशान् भवोपग्राहीणि सत्कर्माणि क्षपयति ततः सिध्यति बुध्यते इति पूर्ववत् ॥५८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org