SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ७२२ उत्तरज्झयणाणि-२ क्रियाकलापं वदति तथैव करोतीति भावः ॥५१॥ एवंविधस्य योगसत्यमपि स्यादिति तदाह जोगसच्चेणं भंते ! जीवे किं जणयइ ? । जोगसच्चेणं जोगे विसोहेइ ॥५२॥ व्याख्या-योगा मनो-वाक्-कायास्तेषां सत्यमवितथत्वं योगसत्यं तेन योगान् विशोधयति कर्मबन्धाभावान्निर्दोषान् करोति ॥५२॥ एतच्च सत्यं गुप्त्यन्वितस्यैव स्यादित्याद्यां मनोगुप्तिमाह मणगुत्ताए णं भंते ! जीवे किं जणयइ ? । मणगुत्ताए णं जीवे एगग्गं जणयइ । एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥५३॥ व्याख्या-मनोगुप्ततया मनोगोपनरूपया जीव एकाग्र्यं धर्मैकतानचित्तत्वं जनयति । एकाग्रचित्तो जीवो गुप्तमशुभाध्यवसायेभ्यो रक्षितं मनो येन स गुप्तमनाः संयमाराधको भवति मनोरोधस्य तत्र प्रधानत्वात् ॥५३॥ द्वितीयां गुप्तिमाह वयगुत्तयाए णं भंते ! जीवे किं जणयइ ? । वयगुत्तयाए णं निव्विकारत्तणं जणयइ । निव्विकारेणं जीवे वयगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥५४॥ __ व्याख्या-वाग्गुप्ततया कुशलवागुदीरणया निर्विकारत्वं विकथादिवाग्विकाराभावं जनयति । निर्विकारो जीवो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमानध्यात्मं मनस्तस्य योगा व्यापार धर्मध्यानादयस्तेषां साधनान्येकाग्रतादीनि तैर्युक्तश्चापि भवति । वाग्गुप्त एव हि चित्तैकाग्रतादिभाग् भवेदिति भावः ॥५४॥ तृतीयां गुप्तिमाह कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? । कायगुत्तयाए णं संवरं जणयइ । संवरेण कायगुत्ते पुणो पावासवनिरोह करेइ ॥५५॥ व्याख्या-कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति । संवरेण 'अभ्यस्यमानेनेति गम्यम्' कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापार: पापस्य कर्मण आस्रवा उपादानहेतवो हिंसादयः पापास्त्रवास्तन्निरोधं करोति ॥५५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy