SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ७२१ ऋजुकः कायर्जुकस्तद्भावस्तत्ता कुब्जादिवेष-भ्रूविकाराद्यकरणतः प्राञ्जलता ताम्, भावोऽभिप्रायस्तेन ऋजुकता भावर्जुकता यदन्यद् विचिन्तयन् लोकभीत्यादिहेतोरन्यद् वाचा भाषतेऽन्यत् करोति तत्त्यागरूपा ताम्, भाषया ऋजुकता भाषर्जुकता यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका ताम्, अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नः 'उपलक्षणात् कायर्जुकतादिसम्पन्नश्च' जीवो धर्मस्याराधको भवति ॥४८॥ एवंगुणस्यापि विनयेनैव फलावाप्तिः, स च मार्दवादेवेति तदाह मद्दवयाए णं भंते ! जीवे किं जणयइ ? । मद्दवयाए णं मिउमद्दवसंपन्ने अट्ठ मयट्ठाणाइं निट्ठवेइ ॥४९॥ व्याख्या-मार्दवेन 'अभ्यस्यमानेनेति गम्यम्' मृदुः कोमलः सकलभव्यजनमनःसन्तोषहेतुत्वाद् द्रव्यतो भावतश्चावनमनशीलस्तस्य भावो मार्दवं यत् सदा मार्दवोपेतस्यैव भवति तेन सम्पन्नस्तदभ्यासात् सदा मृदुस्वभावो मृदुमार्दवसम्पन्नः सन् अष्ट मदस्थानानि जात्यादीनि निष्ठापयति विनाशयति ॥४९॥ एतत् तत्त्वतः सत्यव्यवस्थितस्यैव स्यात्, तत्र च भावसत्यं प्रधानमिति तदाह भावसच्चेणं भंते ! जीवे किं जणयइ ? । भावसच्चेणं भावविसोहिं जणयइ । भावविसोहीए वट्टमाणे जीवे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए णं अब्भुटेइ । अरहंतपन्नत्तस्स धम्मस्स आराहणयाए णं अब्भुट्टित्ता परलोगधम्मस्स आराहए भवइ ॥५०॥ व्याख्या-भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेन भावविशुद्धि विशुद्धाध्यवसायात्मिकां जनयति । भावविशुद्धौ वर्तमानो जीवोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनयाऽभ्युत्थाय परलोकधर्मस्याराधको भवति प्रेत्यजिनधर्मावाप्त्येति भावः ॥५०॥ भावसत्ये च करणसत्यं सम्भवतीति तदाह करणसच्चेणं भंते ! जीवे किं जणयइ ? । करणसच्चेणं करणसत्ति जणयइ । करणसच्चे वट्टमाणो जीवो जहावाई तहाकारी आवि भवइ ॥५१॥ व्याख्या-करणसत्यं यत् प्रतिलेखनादिक्रियां यथोक्तामुपयुक्तः कुरुते तेन करणशक्ति तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति । करणसत्ये वर्तमानो जीवो यथावादी तथाकारी चापि भवति स हि सूत्रार्थमधीयानो यथैव Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy