SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ७२० उत्तरज्झयणाणि-२ अपुनरावृत्ति पुनरिहागमनाभावमर्थान्मुक्तिं जनयति अपुनरावृत्तिप्राप्तो जीवः शारीरमानसानां दुःखानां नो भागी भवति सिद्धिसुखभाग् भवतीति भावः ॥४४॥ सर्वगुणसम्पन्नता च वीतरागतया स्यादिति तामाह वीयरागयाए णं भंते ! जीवे किं जणयइ ? । वीयरागयाए णं नेहाणुबंधणाणि तण्हाणुबंधणाणि य वुच्छिदइ । मणुन्नामणुन्नेसु सद्दफरिस-रूव-रस-गंधेसु विरज्जइ ॥४५॥ __ व्याख्या-वीतरागतया राग-द्वेषापगमरूपया स्नेहः पुत्रादिविषयः, तृष्णा द्रव्यादि-विषया तद्रूपाण्यनुबन्धनान्यनुकूलानि बन्धनानि व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्द-स्पर्श-रूप-रस-गन्धेषु विरज्यते । कषायप्रत्याख्यानेनैव गतार्थत्वेऽपि रागस्य सर्वानर्थमूलत्वख्यापनार्थं पृथग् वीतरागतोपादानम् ॥४५॥ वीतरागतायां तात्त्विकं श्रामण्यम्, तत्र च व्रतानि, तत्पालनोपायभूता क्षान्तिरेव प्रथमेति तामाह खंतीए णं भंते ! जीवे किं जणयइ ? । खंतीए णं परीसहे जणयइ ॥४६॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीषहानर्थाद् वधादीन् जनयति ॥४६॥ क्षान्तिस्थितेन मुक्तिरपि कार्येति तामाह मुत्तीए णं भंते ! जीवे किं जणयइ ? । मुत्तीए णं अकिंचणं जणयइ । अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जे भवइ ॥४७॥ व्याख्या-मुक्तिनिर्लोभता तया अकिञ्चनं निष्परिग्रहत्वं जनयति । अकिञ्चनश्च जीवोऽर्थो लोला लम्पटा अर्थलोलाचौरादयस्तेषामप्रार्थनीयः 'प्रस्तावाद् याचितुम्' अभिलषणीयो न भवति ॥४७॥ लोभे सति माया स्यात्, तदभाव आर्जवमतस्तदाह अज्जवयाए णं भंते ! जीवे किं जणयइ ? । अज्जवयाए णं काउज्जुययं भावुज्जुययं भासुज्जुययं अविसंवायणं जणयइ । अविसंवायणसंपन्ने णं जीवे धम्मस्स आराहए भवइ ॥४८॥ व्याख्या-ऋजुरवक्रस्तद्भाव आर्जवं तेन मायापरिहाररूपेण कायेन ऋजुरेव Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy