________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
एतत् प्रत्याख्यानं प्राय: प्रतिरूपतायामेव स्यादतस्तामाह
पडिरूवयाए णं भंते ! जीवे किं जणय ? | पडिरूवयाए णं लाघवियं जणय । लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसमत्ते सव्वपाण- भूय-जीव-सत्तेसु वीससणिज्जरूवे अप्पपडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ
॥४२॥
व्याख्या- 'प्रतिः सादृश्ये' ततः प्रतीति स्थविरकल्पिकादिसदृशं रूपं वेषो यस्य स तथा तद्भावस्तत्ता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघवी तद्भावो लाघविता तां द्रव्यतः स्वल्पोकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पादिरूपेण विज्ञायमानत्वात् । प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात् । विशुद्धसम्यक्त्वः । सत्त्वं चापत्स्ववैक्लव्याध्यवसानम्, समितय ईर्याद्याः पञ्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्त्वसमितिः 'निष्ठान्तस्य परनिपातः प्राकृतत्वात् तत एव सर्वप्राण- भूत - जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडाऽपहारित्वात् । अल्पप्रत्युपेक्षोऽल्पोपकरणत्वात् । जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च समन्वागतो युक्तो विपुलतपः समितिसमन्वागतश्चापि भवति ॥४२॥
७१९
प्रतिरूपतायामपि वैयावृत्त्यादेवेष्टफलावाप्तिरिति तदाह
वेयावच्चेणं भंते ! जीवे किं जणयइ ? | वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंध ॥ ४३ ॥
व्याख्या–व्यावृतः कुलादिकार्येषु व्यापारवांस्तद्भावो वैयावृत्यं तेन तीर्थकरनामकर्म निबध्नाति । उक्तं हि तद्धेतुर्विंशतिस्थानसूत्रे –' वैयावच्चे समाही य'त्ति ॥४३॥
वैयावृत्त्यवांश्च सर्वगुणभाग् स्यादिति तदाह
सव्वगुणसंपन्नया णं भंते ! जीवे किं जणयइ ? । सव्वगुणसंपन्नया णं अपुणरावतिं जणय । अपुणरावत्तिपत्तए णं जीवो सारीरमाणुसणं दुक्खाणं नो भागी भवइ ॥ ४४ ॥ व्याख्या-सर्वगुणैर्ज्ञानादिभिः सम्पन्नो युक्तस्तद्भावः सर्वगुणसम्पन्नता तया
१. वैयावृत्त्ये समाधिश्चेति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org