________________
७१८
उत्तरज्झयणाणि-२ सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्यान एव सुकराणि स्युरिति तदाह
सहायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । सहायपच्चक्खाणेणं एगीभावं जणयइ । एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ॥३९॥
___ व्याख्या सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेणैकीभावमेकत्वं जनयति । एकीभावभूतश्चैकत्वप्राप्तश्च जीव एकाग्र्यमेकालम्बनत्वं भावयन्नभ्यसन् अल्पझञ्झोऽविद्यमानवाक्कलहोऽल्पकषायोऽविद्यमानक्रोधादिः । अल्पमविद्यमानं 'तुमंतुम'त्ति त्वं त्वमिति स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान्, त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा । 'सर्वत्राल्पशब्दोऽभाववाची' । तथा संयमबहुलः संवरबहुल इति प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥३९।।
एवंविधश्चान्ते भक्तप्रत्याख्यानवान् स्यादिति तदाह
भत्तपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । भत्तपच्चक्खाणेणं अणेगाई भवसयाई निरंभइ ॥४०॥
व्याख्या-भक्तप्रत्याख्यानेनाहारत्यागरूपेण भक्तपरिज्ञानादिना अनेकानि भवशतानि निरुणद्धि ॥४०॥
सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह
सब्भावपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । सब्भावपच्चक्खाणेणं अणियट्टि जणयइ । अणियट्टिपडिवन्ने य अणगारे चत्तारि कम्मंसे खवेइ । तंजहा-वेयणिज्जं आउयं नामं गोयं पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुख्खाणमंतं करेइ ॥४१॥
व्याख्या-सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेनानिवृत्तिं शुक्लध्यानचतुर्थभेदं जनयति । प्रतिपन्नानिवृत्तिश्चानगारश्चत्वारि केवलिनः कर्मांशानि 'अंशशब्दस्य सत्पर्यायत्वात्' सत्कर्माणि भवोपग्राहीणि क्षपयति तद् यथा वेदनीयमायुर्नाम गोत्रं चेति । ततः पश्चात् सिध्यति बुध्यत इति पूर्ववत् ॥४१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org