________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
७१७ व्याख्या-आहारप्रत्याख्यानेनानेषणीयभक्तपानत्यागरूपेणं जीविते प्राणधारणे आशंसाभिलाषस्तस्याः प्रयोगो व्यापारस्तं व्यवच्छिनत्ति आहाराधीनत्वाज्जीवितस्य । जीविताशंसाप्रयोगं विच्छिद्य जीव आहारमन्तरेण न संक्लिश्यति विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवतीत्यर्थः ॥३५॥
एतत् प्रत्याख्यानत्रयमपि कषायाभाव एव फलवदिति तत्प्रत्याख्यानमाह
कसायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । कसायपच्चक्खाणेणं वीयरागभावं जणयइ । वीयरागभावपडिवन्ने य णं जीवे समसुह-दुक्खे भवइ ॥३६॥
व्याख्या-कषायप्रत्याख्यानेन क्रोधादिपरिहारेण वीतो गतो राग उपलक्षणाद् द्वेषश्चास्येति वीतरागस्तद्भावं जनयति । 'प्राकृतत्वात्' प्रतिपन्नवीतरागभावः पुनः जीवः समे राग-द्वेषाभावतस्तुल्ये सुख-दुःखे यस्य स तथाविधो भवति ॥६॥
निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदाह
जोगपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । जोगपच्चक्खाणेणं अजोगत्तं जणयइ । अजोगी य णं जीवे नवं कम्मं न बंधइ पुव्वबद्धं निज्जरेइ ॥३७॥
व्याख्या-योगा मनो-वाक्-कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेनायोगत्वमयोगिभावं जनयति । अयोगी च जीवो नवं कर्म न बध्नाति । पूर्वबद्धं भवोपग्राहिकर्मचतुष्टयमन्यस्य तदाऽसम्भवान्निर्जरयति क्षपयति ॥३७॥ _योगप्रत्याख्यानतः शरीरप्रत्याख्यानमपि स्यादिति तदाह
सरीरपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ । सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही भवइ ॥३८॥
व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वं निवर्तयति जनयति । सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रं मुक्तिपदमुपगतः प्राप्तः परमसुखी भवति । यद्यपि योगप्रत्याख्यानेन शरीरप्रत्याख्यानमप्युक्तमेव, तथापि मनो-वाग्योगयोरेतदाधारत्वात् प्राधान्यख्यापनार्थम् ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org