SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि - २ व्याख्या - संयमेन पञ्चाश्रवाः पञ्चेन्द्रियाणि चत्वारः कषायास्त्रयो दण्डा स्तद्विरमणेन 'अणण्हयत्तं'ति अनंहस्कत्वमविद्यमानकर्मत्वं जनयत्यास्रवविरमणात्मकत्वादस्य ॥ २६ ॥ संयमवतोऽपि तपो विना न कर्मक्षय इति तदाह ७१४ तवेणं भंते ! किं जणयइ ? । तवेणं वोदाणं जणयइ ॥२७॥ व्याख्या–तपसा वक्ष्यमाणेन 'वोदाणं'ति व्यवदानं पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिं जनयति ॥२७॥ तपोऽनन्तरफलं व्यवदानमिति तमाह — वोदाणेणं भंते ! किं जणयइ ? । वोदाणेणं अकिरियं जणयइ । अकिरिया भवित्ता तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेड़ ॥२८॥ व्याख्या - व्यवदानेनान्तरोक्तार्थेनाक्रियां व्युपरतक्रियाख्यशुक्लध्यानचतुर्थभेदं जनयति, अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ततः पश्चात् सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञान–दर्शनाभ्यां वस्तुतत्त्वं जानाति, मुच्यते संसारादत एव परिनिर्वाति परि समन्तान्निर्वाति कर्माग्निविध्यापनेन शीतीभवति, सर्वदुःखानामन्तं करोति ॥ २८॥ व्यवदानं च संयमादिषु सत्स्वपि सुखशाता नैव स्यादिति तमाह सुहसाएणं भंते ! किं जणयइ ? । सुहसाएणं अणुस्सुयत्तं जणय | अणुस्सुए णं जीवे अणुकंपे अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवेइ ॥२९॥ व्याख्या–सुखस्स वैषयिकस्य शातस्तद्गतस्पृहानिवारणेनापनयनं सुखशातस्तेनानुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति । अनुत्सुकश्च जीवोऽनु सह कम्पते इत्यनुकम्पको दुःखेन कम्पमानं परमवलोक्य तद्दुःखदुःखितया स्वयमपि तत्काल एव कम्पते, तथाऽनुद्भटोऽनुल्बणः, विगतशोको नैहिकार्थभ्रंशेऽपि शोचते मुक्तिबद्धस्पृहत्वादेवंविधशुभाध्यवसायाच्चारित्रमोहनीयं कर्म क्षपयति ॥ २९ ॥ सुखशातस्थितस्य चाप्रतिबद्धता भवतीति तामाह अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? | अप्पडिबद्धयाए णं निस्संगत्तं जणयइ । निस्संगत्तगए णं जीवे एगे एगग्गचित्ते दिया य राउ य असज्जमाणो अप्पडिबद्धे आवि विहरई ॥३०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy