________________
७१३
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
एवमभ्यस्तश्रुतेन च धर्मकथाऽपि कार्येति तामाह
धम्मकहाए णं भंते ! जीवे किं जणयइ ? । गोयमा ! धम्मकहाए पवयणं पभावेइ । पवयणपभावए जीवे आगमेसिस्स भद्दत्ताए कम्म निबंधइ ॥२३॥
व्याख्या-धर्मकथया व्याख्यानरूपया प्रवचनं सिद्धान्तं प्रभावयति प्रकाशयति । प्रवचनप्रभावको जीवः 'आगमेसिस्स भद्दत्ताए'त्ति आगमिष्यदागामिकालभावि भद्रं कल्याणं यस्मिस्तत् तथा तस्य भावस्तत्ता तयोपलक्षितं कर्म निबध्नाति शुभमुपार्जयतीति भावः ॥२३॥
इत्थं पञ्चविधस्वाध्यायरतेन श्रुतमाराधितं स्यादिति तदाराधनमाह
सुयस्स आराहणयाए णं भंते ! जीवे किं जणयइ ? । गोयमा ! सुयस्स आराहणयाए णं अन्नाणं खवेइ । न य संकिलिस्सइ ॥२४॥
व्याख्या-श्रुतस्याराधनया सम्यगासेवनयाऽज्ञानं क्षपयति विशिष्टतत्त्वबोधावाप्तेः। न च संक्लिश्यते नैव रागादिजनितक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तेः । यत:
"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमपुव्वं ।
तह तह पल्हाइ मुणी नवमवसंवेगसद्धाए"॥१॥ ॥२४॥ श्रुताराधना चैकाग्रमनःसन्निवेशनावत एव स्यादतस्तामाह
एगग्गमणसंनिवेसणयाए णं भंते ! जीवे किं जणयइ ? गोयमा ! एगग्गमणसंनिवेशणयाए णं चित्तनिरोहं करेइ ॥२५॥
व्याख्या-एकमग्रं प्रस्तावाच्छुभमालम्बनमस्यैत्येकाग्रं तच्च तन्मनश्च तस्य सन्निवेशना स्थापना तया चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो नियन्त्रणं चित्तनिरोधस्तं करोति ॥२५॥
एवंविधस्यापि संयमादेवेष्टफलावाप्तिरिति तमाह
संजमेणं भंते ! जीवे किं जणयइ ? । गोयमा ! संजमेणं अणण्हयत्तं जणयइ ॥२६॥
१. यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् ।
तथा तथा प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org