SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ७१२ उत्तरज्झयणाणि-२ बंधणबद्धाओ पकरेइ । दीहकालट्ठिइयाओ हस्सकालट्ठिइयाओ पकरेइ । तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ । बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ । आऊयं च णं कम्मं सिय बंधइ सिय नो बंधइ । असातावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणइ । अणाइयं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पमेव वीईवयइ ॥२२॥ व्याख्या-अनुप्रेक्षा सूत्रस्यार्थचिन्तितं चिन्तनिका तया प्रकृष्टशुभभावहेतुतया आयुर्वर्जाः सप्त कर्मप्रकृतीः 'धणियं' गाढं बन्धनं तेन बद्धा निकाचिताः शिथिलबन्धनबद्धाः किञ्चिन्मुत्कलाः कोऽर्थः ? अपवर्तनादिकरणयोग्याः प्रकरोति । तपोरूपत्वादस्यास्तपसश्च । निकाचितकर्मक्षयक्षमत्वाद्, उक्तञ्च तवसा उ निकाइयाणं च'त्ति । दीर्घकालस्थितिका हुस्वकालस्थितिकाः प्रकरोति शुभाध्यवसायवशात् स्थितिखण्डकापहारेणेति भावः । एतच्चैवं सर्वकर्मणामपि स्थितेरशुभत्वाद् यदुक्तम् "सेव्वासि पि ठिईओ सहासुहाणं पि होति असुहाओ। ___माणुस-तिरिक्ख-देवाउयं च मोत्तूण सेसाणं" ॥१॥ तथा तीव्रानुभावाश्चतुःस्थानिकरसत्वे मन्दानुभावास्त्रिस्थानिकरसवत्त्वाद्यापादनेन प्रकरोति । एताश्चाशुभप्रकृतयो ज्ञेयाः । तथा बहु प्रभूतं प्रदेशाग्रं कर्मदलिकपरिमाणं यासां ता बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति । किञ्चैकस्मिन् भवे सकृदेवान्तर्मुहूर्तकाल एवायुर्बन्धसम्भवादायुर्वर्जत्वमुक्तमत आयुष्कं च कर्म स्याद् बध्नाति स्यान्नो बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् । उक्तं हि-'सिंह तिभागे सिय तिभागतिभागे' इत्यादि । अपरं चासातवेदनीयं शारीरादिदुःखहेतु च कर्म 'चशब्दादन्याश्चाशुभप्रकृती:' नो भूयो भूय उपचिनोति बध्नाति । भूयो भूयो ग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतगुणस्थानवतितायां तद्वन्धस्य सम्भवात् । तथा अनादिकमादेरसम्भवात्, अनवगच्छदग्रपरिमाणं यस्य सोऽनवदनः सदावस्थितपरिमाणोऽनन्त इत्यर्थस्तं प्रवाहापेक्षं चैतत्, अत एव 'दीहमद्धं'ति 'मकारोऽलाक्षणिकः' दीर्घाद्धं दीर्घकालम्, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिस्तच्चतुरन्तं संसारकान्तारं क्षिप्रमेव शीघ्रमेव 'वीईवयइ'त्ति व्यतिव्रजत्यतिक्रामति मुक्तिमाप्नोतीत्यर्थः ॥२२॥ १. तपसा तु निकाचितानां चेति । २. सर्वासामपि स्थितयः शुभाशुभानामपि भवन्त्यशुभाः । ___ मनुष्य-तिर्यग-देवायुश्च मुक्त्वा शेषाणाम् ॥१॥ ३. स्यात् त्रिभागे स्यात् त्रिभागत्रिभागे । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy