SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ७११ निज्जरं जणयइ । सुयस्स अणासायणाए वट्टा । सुयस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ । तित्थधम्मं अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ॥१९॥ व्याख्या-वक्ति शिष्यस्तं वचन्तं गुरुः प्रयुङ्क्ते वाचयतीति वाचना पाठनमित्यर्थस्तया निर्जरां कर्मपरिशाटरूपां जनयति । तथा श्रुतस्यागमस्यानाशातनायां वर्तते । ततः श्रुतस्यानाशातनायां वर्तमानस्तीर्थं गणधरस्तस्य धर्म आचारः श्रुतप्रदानरूपस्तीर्थधर्ममवलम्बते। ततस्तीर्थधर्ममवलम्बमान आश्रयन् महती बहुकर्मविषयत्वान्निर्जराऽस्येति महानिर्जरः, महत् प्रशस्यं मुक्त्यवाप्त्या पर्यवसानमन्तः कर्मो भवस्य वा यस्य स महापर्यवसानश्च भवति मुक्तिभाग् भवतीति हृदयम् ॥१९॥ गृहीतवाचनेन संशयादौ पुनः प्रच्छनं प्रतिपृच्छेति तामाह पडिपुच्छणाए णं भंते ! जीवे किं जणयइ ? । गोयमा ! पडिपुच्छणाए णं सुत्तत्थ-तदुभयं विसोहेइ । कंखामोहणिज्जं कम्म वुच्छिदइ ॥२०॥ व्याख्या-तत्र च पूर्वपठितस्य सूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति संशयाद्यपनयनेन विशुद्धानि कुरुते । काङ्क्षा इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्मानभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति विशेषेणापनयति ॥२०॥ इत्थं विशोधितस्यापि सूत्रस्य मा भूद् विस्मरणमिति परावर्तनामाह परिअट्टणाए णं भंते ! जीवे किं जणयइ ? । गोयमा ! परिअट्टणाए णं वंजणाई जणयइ । वंजणलद्धिं च उप्पाएइ ॥२१॥ व्याख्या-सूत्रत्वात् परावर्तना गुणनं तया व्यञ्जन्ते अर्था एभिरिति व्यञ्जनान्यक्षराणि जनयत्युत्पादयति । तानि हि विगलितान्यपि गुणयतो झगित्युत्पतन्तीत्युत्पादितान्युक्तानि । तथाविधकर्मक्षयोपशमतो व्यञ्जनलब्धि 'चशब्दाद् व्यञ्जनसमुदायरूपपदलब्धि पदानुसारितालक्षणां' उत्पादयति ॥२१॥ सूत्रवदर्थस्यापि विस्मरणसम्भव इत्यनुप्रेक्षामाह अणुप्पेहाए णं भंते ! जीवे किं जणयइ ? । गोयमा ! अणुप्पेहाए णं आऊयवज्जाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिल Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy