SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ७१० उत्तरज्झयणाणि-२ तयोश्च गतयोः सूर्य-चन्द्रयोः सा मृगावती । स्वाश्रयं प्राप भीता द्राक् तमसि प्रसृतेऽभितः ॥५॥ ईर्यापथिक्यामालोच्य नत्वा सुप्तां प्रवर्तिनीम् । ममागः क्षम्यतामेतदित्युक्त्वा चापतत् पदोः ॥६॥ चन्दना चन्दनाभाभिर्वाणीभिस्तामशिक्षयत् । किं निर्मलकुले युक्तं नक्तं स्थातुं बहिस्तव ? ॥७॥ चन्दनाचरणौ संवाहयन्ती सा मृगावती । निद्राणां क्षामयन्ती तां केवलज्ञानमासदत् ॥८॥ उद्दधेऽथ मृगावत्या धरातश्चन्दनाकरम् । प्रबुद्धा चन्दनाऽवोचत् किमचालि करो मम ? ॥९।। जगौ मृगावती सर्पन् सर्पोऽस्तीत्याह चन्दना । अदशि स कथं ध्वान्ते साऽऽख्यत् केवलसंविदा ॥१०॥ उत्थाय चन्दनाऽऽचष्ट महासति मृगावति ! । केवल्याशातनामन्तुं क्षमस्वाज्ञानतः कृतम् ॥११॥ मृगावती क्षामयन्ती प्रवर्तिन्यार्यचन्दना ।। निन्दन्ती च मुहुः स्वागः श्रिता केवलसम्पदा ॥१२॥ इति क्षामणायां चन्दना-मृगावतीकथा ॥१७॥ एवंविदेन यतिना स्वाध्याये यतितव्यमिति तमाह सज्झाएणं भंते ! जीवे किं जणयइ ? । सज्झाएणं नाणावरणिज्जं कम्मं खवेइ ॥१८॥ व्याख्या-स्वाध्यायेन ज्ञानावरणीयं 'उपलक्षणाच्छेषं कर्म' क्षपयति । यत उक्तम् "कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरंमि वि जोए सज्झायंमी य विसेसेण" ॥१॥ ॥१८॥ अत्र च पूर्वं वाचनैव विधेयेति तामाहवायणाए य णं भंते ! जीवे कि जणयइ ? । वायणाए य णं १. कर्मासङ्ख्यातभवं क्षपयत्यनुसमयमेवायुक्तः । अन्यतरस्मिन्नपि योगे स्वाध्याये च विशेषणे ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy