________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
कथञ्चिदकालपाठे प्रायश्चित्तं प्रतिपत्तव्यमिति तदाह
पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? । गोयमा ! पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ । निरइयारे आवि भवइ । सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं मग्गफलं विसोहेइ । आयारं च आराहेइ ॥१६॥
७०९
व्याख्या- प्रायश्चित्तकरणेनालोचनादिविधानेन पापकर्मणां विशुद्धिरभावस्तां जनयति । निरतिचारश्चापि भवति । सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्ग इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति निर्मलीकुरुते । ततश्चाचारश्चारित्रं तं च तत्फलं च मुक्तिलक्षणमाराधयति । विशोधनाराधनयोश्च निरतिचारतैव हेतुरिति भावः ||१६||
प्रायश्चित्तकरणं च क्षामणावत एव स्यादिति तामाह
खमावणाए णं भंते ! जीवे किं जणयइ ? । खमावणाए णं पल्हायणभावं जणयइ । पल्हायणभावगए य सव्वपाण- भूय - जीवसत्तेसु मित्तीभावं उप्पाएइ । मित्तीभावमुवगए आवि जीवे भावविसोहिं काऊण निब्भए भवइ ॥१७॥
व्याख्या - क्षामणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रह्लादनभावं चित्तप्रसत्तिरूपं जनयति । प्रह्लादनभावमुपगतः सर्वे च प्राणाश्च द्वि-त्रि- चतुरिन्द्रियाः, भूताश्च तरवः, जीवाश्च पञ्चेन्द्रियाः, सत्त्वाश्च शेषजन्तवः सर्वप्राण- भूत - जीव- सत्त्वास्तेषु मैत्रीभावं परहितचिन्तालक्षणमुत्पादयति । मैत्रीभावमुपगतश्च जीवो भावविशुद्धि राग-द्वेषापगमरूपां कृत्वा निर्भय इह-परलोकादिभयविकलो भवति सर्वभयहेत्वभावात् । अत्रार्थे मृगावतीदृष्टान्तःसद्वत्सविषयोल्लासिसुपयोदार्जुनीव या । सद्वत्सविषयोल्लासा कौशाम्बी पूर्वराऽस्ति सा ॥१॥ वर्धमानो जिनस्तत्र वर्धमानो गुणैः शुभैः । पादाभ्यां पावयन् पृथ्वीमुद्याने समवासरत् ॥२॥ पुष्पदन्तौ प्रभुं नन्तुं समाजग्मतुरन्यदा । विमानाभ्यां तमोऽस्यन्तौ तृतीये प्रहरे मुदा ॥ ३॥ स्वस्थानेऽगात् तमीं मत्वा चातुर्यादार्यचन्दना । तत्रास्थात् स्वामिवाग्लीना दिनभ्रान्त्या मृगावती ||४||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org