________________
७०८
उत्तरज्झयणाणि-२ मतीचार' विशोधयत्यपनयति । विशुद्धप्रायश्चित्तश्च जीवो निर्वृतं स्वस्वीकृतं हृदयं यस्य स निर्वृतहृदयः, क इव ? अपहृतस्त्यक्तो भरो भारो येन स तथा एवंविधो भारवाहो वाहकादिः स इव भारप्राया ह्यतीचारास्तदपनयनेऽपहृतभरभारवह इव निर्वृतहृदय एवेति भावः । प्रशस्तध्यानोपगतः सुखं सुखेन सुखपरम्परावाप्त्या विहरति ॥१२॥
एवमप्यशुद्धयमानेन प्रत्याख्यानं कार्यमिति तमाह
पच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । पच्चक्खाणेणं आसवदाराई निरुंभइ ॥१३॥
व्याख्या-प्रत्याख्यानेन मूलगुणप्रत्याख्यानरूपेणास्रवद्वाराणि निरुणद्धि ॥१३॥ प्रत्याख्यानग्रहणानन्तरं चैत्यवन्दनं विधेयम्, तच्च न स्तवस्तुतिमङ्गलं विनेति तदाह
थय-थुइमंगलेणं भंते ! जीवे किं जणयइ ? । थय-थुइमंगलेणं नाण-दंसण-चरित्त-बोहिलाभं जणयइ । नाण-दंसण-चरित्त-बोहिलाभसंपन्ने णं जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ ॥१४॥
व्याख्या-स्तवा देवेन्द्रस्तवादयः, स्तुतयः एकादिसप्तश्लोकान्ताः ‘क्त्यन्तस्य पूर्वनिपाते प्राप्तेऽप्यार्षत्वाद् व्यत्ययः' स्तुतिस्तवा एव मङ्गलं भावमङ्गलरूपं तेन ज्ञानदर्शन-चारित्रात्मिका बोधिर्ज्ञान-दर्शन-चारित्र-बोधिस्तस्या लाभो ज्ञान-दर्शन-चारित्रबोधिलाभो जिनधर्मप्राप्तिस्तं जनयति । ज्ञान-दर्शन-चारित्र-बोधिलाभसम्पन्नश्च जीवोऽन्तः पर्यन्तो भवस्य कर्मणो वा तस्य क्रिया करणमन्तक्रिया मुक्तिरित्यर्थस्ताम्, कल्पा देवलोका विमानानि ग्रैवेयकानुत्तरसम्बन्धीनि तेषूपपत्तिर्यस्यां सा तथा ताम्, को भावः ? अनन्तरभवे कल्पादिषु देवत्वावाप्तिफलां परम्परया तु मुक्तिप्रापिकामाराधना ज्ञानाधाराधनारूपामाराधयति साधयति । तथा चैवमाराधनया कश्चिद् भरतादिस्तद्भवे एव दीर्घपर्यायेण, कश्चिद् गजसुकुमालादिः स्वल्पपर्यायेणान्तक्रियां करोतीति भावः ॥१४॥
अर्हद्वन्दनानन्तरं स्वाध्यायो विधेयः, स च कालप्रत्युपेक्षापूर्वमिति तामाह
कालपडिलेहणयाए णं भंते ! जीवे किं जणयइ ? । कालपडिलेहणयाए णं नाणावरणिज्जं कम्मं खवेइ ॥१५॥
व्याख्या-कालः प्रादोषिकादिस्तस्य प्रत्युपेक्षणा आगमविधिना यथावन्निरूपणाग्रहण-प्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ज्ञानावरणीयं कर्म क्षपयति ।।१५।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org