________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
७०७ व्याख्या-चतुर्विंशतिस्तवेनैतदवसर्पिणीप्रभवार्हदुत्कीर्तनरूपेण दर्शनस्य सम्यक्त्वस्य विशुद्धिं तदुपघातिकर्मापगमान्निर्मलतां जनयति ॥९॥
स्तुत्वाप्यर्हतो गुरुवन्दनकपूर्वैव तत्प्रतिपत्तिरिति तदाह
वंदणएणं भंते ! जीवे किं जणयइ ? । वंदणएणं नीयागोयं कम्म खवेइ । उच्चागोयं कम्मं निबंधइ । सोहग्गं च णं अप्पडिहयं आणाफलं निव्वत्तेइ । दाहिणभावं च णं जणयइ ॥१०॥
__ व्याख्या-वन्दनकेनाचार्याधुचितप्रतिपत्तिरूपेण नीचैर्गोत्रमधमकुलोत्पत्तिहेतु कर्म क्षपयति । उच्चैर्गोत्रं निबध्नाति । सौभाग्यं च सर्वजनस्पृहणीयतारूपमप्रतिहतमस्खलितमत एवाज्ञाफलमाज्ञासारं निवर्तयति जनयति । दक्षिणभावं चानुकूलतां जनयति 'लोकस्येति गम्यम्' ॥१०॥
एतद्गुणस्थितेनापि पूर्व-पश्चिमार्हतोस्तीर्थेऽवश्यं प्रतिक्रमणं कार्यमिति तदाह
पडिक्कमणेणं भंते ! जीवे किं जणयइ ? । पडिक्कमणेणं वयछिद्दाई पिहेइ । पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ ॥११॥
___ व्याख्या-प्रतिक्रमणेनापराधेभ्यः प्रतीपनिवर्तनात्मकेन व्रतानां प्राणातिपातविरत्यादीनां छिद्राणि पिदधाति स्थगयत्यपनयतीति यावत् । पिहितव्रतच्छिद्रः पुनर्जीवो निरुद्धास्रवोऽशबलमेकविंशत्याशबलस्थानैरकर्बुरीकृतं चरित्रं यस्य स तथा, तथाष्टसु प्रवचनमातृषूपयुक्तोऽवधानवान्, न विद्यते पृथक्त्वं संयमयोगेभ्यो वियुक्तत्वं यस्यासावपृथक्त्वः सदा संयमयोगवानप्रमत्तो वा, तथा सुप्रणिहितः सुष्ठ संयमे प्रणिधानवान्, 'सुप्पणिहिदिए' इति पाठे सुप्रणिहितान्यसन्मार्गात् प्रच्याव्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियो विहरति संयममार्गे याति ॥११॥
अत्र चातीचारशुद्ध्यर्थं कायोत्सर्गः कार्य इति तमाह
काउसग्गेणं भंते ! जीवे किं जणयइ ? । काउसग्गेणं तीय-पडुप्पन्नं पायच्छित्तं विसोहेइ । विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरु व्व भारवहे पसत्थज्झाणोवगए सुहं सुहेणं विहरइ ॥१२॥
व्याख्या-कायस्य शरीरस्योत्सर्गः श्रुतोक्तनीत्या त्यागः कायोत्सर्गस्तेनातीतमिह चिरकालभावितया, प्रत्युत्पन्नं चासन्नकालभावित्वेन, प्रायश्चित्तम् 'उपचारात् प्रायश्चित्तार्ह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org