________________
७०६
‘“उवरिमठिईइ दलियं हिट्टिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण असुहाओ सुहंमि पक्खिवइ" ॥१॥
'उपलक्षणात् स्थितिघात - रसघात - गुणसङ्क्रम - स्थितबन्धाश्च विशिष्टाः' अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः 'प्रक्रमात् क्षपकश्रेणिः ' तां प्रतिपद्यते । प्रतिपन्नगुणश्रेणिश्चानगारो मोहनीयं कर्मोद्धातयति क्षपयति । तत्क्षपणे च मुक्तिप्राप्तिरप्यर्थत उक्तैव ॥६॥
उत्तरज्झयणाणि - २
कश्चित् स्वदोषान् निन्दन्नपि पापभीरुतया गर्हामपि कुर्यादिति तामाह
गरहणयाए णं भंते ! जीवे किं जणयइ ? । गरहणयाए णं अपुरक्कारं tras | अपुरक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्ते । सत्थेहि य पडिवज्जइ । पसत्थजोगपडिवन्ने य णं अणगारे अनंतघाई पज्जवे खवे ॥७॥
व्याख्या - गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गौरवाध्यारोपो न तथा अपुरस्कारोऽवज्ञास्पदत्वं तं जनयति 'स्वस्येति गम्यते' । अपुरस्कारगतो जीवः कदाचित् कदध्यवसायोत्पत्तावपि तद्भीत्यैवाप्रशस्तेभ्यः कर्मबन्धहेतुभ्यो योगेभ्यो निवर्तते, तान् न प्रतिपद्यते । प्रशस्तयोगांस्तु प्रतिपद्यते । प्रतिपन्नप्रशस्तयोगोऽनगारो 'अणंतघाइ' त्ति अनन्तविषयतया अनन्तज्ञान- दर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मणः परिणतिविशेषान् क्षपयति । 'उपलक्षणं चैतन्मुक्तिप्राप्तेः' तदर्थत्वाद् धर्मानुष्ठानस्य ॥७॥ आलोचनादीनि च सामायिकवत एव भवन्तीति तदुच्यते
सामाइएणं भंते ! जीवे किं जणयइ ? । सामाइएणं सावज्जजोगविरइं जणयइ ॥ ८ ॥
व्याख्या- सामायिकेनोक्तस्वरूपेण सावद्याः कर्मबन्धहेतवो योगा व्यापारास्तेभ्यो विरतिरुपरमः सावद्ययोगविरतिस्तां जनयति तद्विरतेरेव सामायिकसम्भवात् ॥८॥ सामायिकं चाङ्गीचिकीर्षुणा तत्प्रणेतृणामर्हतां स्तवः कार्य इति तमाहचउवीसत्थएणं भंते ! जीवे किं जणयइ ? । चउवीसत्थएणं दंसणविसोहिं जणयइ ॥९॥
१. उपरितनस्थितेर्दलिकान्यधस्तनस्थानेषु करोति गुणश्रेणिः । गुणसङ्क्रमकरणं पुनरशुभान् शुभे प्रक्षिपति ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org