________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
७०५
भावप्रत्यये च' वर्णसञ्ज्वलन - भक्ति- बहुमानता तया 'प्रक्रमाद् गुरूणां' विनयप्रतिपत्तिरूपया मनुष्य- देवसुगती विशिष्टकुलेन्द्रत्वादिलक्षणे निबध्नाति । सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन । प्रशस्तानि च विनयमूलानि विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्ति साधयति । अन्यांश्च बहून् जीवान् विनेता विनयं ग्राहिता स्वयं सुस्थितस्योपादेयवचनत्वाद् । उक्तं हि - " ठिओ उ ठावयए परं" ति ॥४॥
गुरुशुश्रूषणां कुर्वतोऽप्यतीचारसम्भवे आलोचनात् एवोक्तफलावाप्तिरिति तामाहआलोयणयाए णं भंते ! जीवे किं जणयइ ? । आलोयणयाए जं मायानियाणमिच्छादंसणसल्लाणं मोक्खमग्गविग्घाणं अनंतसंसारवद्धणाणं उद्धरणं करेइ । उज्जुभावं च णं जणयइ । उज्जुभावपडिवन्ने य णं जीवे अमायी इत्थीवेयं नपुंसकवेयं च न बंधइ । पुव्वबद्धं च णं निज्जरेइ ॥ ५ ॥
व्याख्या-आ सामस्त्येन लोचना गुर्वादेः स्वदोषाणां प्रकाशना तया माया शाठ्यं, यन्निदानं ममातस्तपःप्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकम्, मिथ्यादर्शनं सांशयिकाद्येतानि शल्यानीव शल्यानि 'कर्मधारये' माया - निदान - मिथ्यादर्शनशल्यानि तेषां मोक्षविघ्नानां कर्मबन्धहेतुत्वेन मुक्त्यन्तरायाणां, तथानन्तसंसारवर्धनानामुद्धरणमपनयनं करोति । तदुद्धरणतश्च ऋजुभावं सरलत्वं जनयति । प्रतिपन्नर्जुभावश्च जीवोऽमायी मायारहितः स्त्रीवेदं नपुंसकवेदं च न बध्नाति । पूर्वबद्धं च तद् द्वयं यद्वा सर्वमपि कर्म निर्जरयति क्षपयति ततो मुक्तिमाप्नोतीति भावः ॥ ५ ॥
आलोचना दुष्कृतनिन्दावत एव सफला स्यादिति तामाह
निंदणयाए णं भंते ! जीवे किं जणय ? | निंदणयाए णं पच्छाणुतावं जणयइ । पच्छाणुतावे य णं विरज्जमाणो करणगुणसेढिं पडिवज्जइ । करणगुणसेढीपडिवन्ने य णं अणगारे मोहणिज्जं कम्मं उग्घाएइ ॥ ६॥
व्याख्या–आर्षत्वान्निन्दनेनात्मनैवात्मदोषपरिभावनेन पश्चादनुतापं हा! दुष्टमनुष्ठितमिदं मयेति जनयति । ततः पश्चादनुतापेन विरज्यमानो वैराग्यं गच्छन् करणेनापूर्वकरेन गुणहेतुका श्रेणिः करणगुणश्रेणिः सा चोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात् प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपान्तर्मौहूर्तिकी । यत उक्तम्
१. स्थितस्तु स्थापयति परम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org