________________
७०४
उत्तरज्झयणाणि-२ विषयेन कदाऽसौ त्याज्यः ? इत्येवंरूपेण दिव्यादिकामभोगेषु निर्वेदं 'हव्वं' ति शीघ्रमागच्छति यथालमेतैरनर्थहेतुभिरिति । तथा च सर्वविषयेषु शब्दादिषु विरज्यते विरागमाप्नोति । तेषु च विरज्यमान आरम्भः प्राणिव्यपरोपणव्यापारस्तत्परित्यागं करोति । विषयार्थत्वादारम्भाणां तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वादि व्यवच्छिनत्ति । तत्त्यागत एवारम्भत्यागसम्भवात् । तद्व्यवच्छित्तौ च सिद्धिमार्गः सम्यग्दर्शनादिः प्रतिपन्नो भवति ॥२॥
सत्यपि निर्वेदे धर्मश्रद्धैव शुभहेतुरिति तामाह
धम्मसद्धाए णं भंते ! जीवे किं जणयइ ? धम्मसद्धाए णं सायासोक्खेसु रज्जमाणे विरज्जइ । अगारधम्मं च णं चयइ । अणगारिए णं जीवे सारीर-माणसाणं दुक्खाणं छेयण-भेयण-संजोगाईणं वुच्छेयं करेइ । अव्वाबाहं च सुहं निव्वत्तेइ ॥३॥
व्याख्या-धर्मश्रद्धया धर्मरुचिरूपया सातसौख्येषु सातवेदनीयजनितसुखेषु वैषयिकसुखेष्वित्यर्थः । रज्यमानः पूर्वं रागं कुर्वन् विरज्यते विरक्तो भवति । अगारधर्मं च गार्हस्थ्यं त्यजति । ततश्चानगारो यतिः सन् जीवः शारीर-मानसानां दुःखानां छेदन-भेदनसंयोगादीनामनिष्टानां 'आदिशब्दादिष्टवियोगादीनां' व्युच्छेदं करोति तन्निबन्धनकर्मोच्छेदनेनेति भावः । अव्याबाधमुपरतसर्वपीडं 'अर्थान्मौक्तं' सुखं च निवर्तयति जनयति ॥३॥
धर्मश्रद्धायां चावश्यं गुर्वादीनां शुश्रूषणा कार्येति तामाह
गुरु-साहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणयइ ? । गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणयइ । विणयपडिवन्ने य णं जीवे अणच्चासायणसीले नेरड्य-तिरिक्खजोणिय-मणुस्स-देवदुग्गईओ निरंभइ । वन्नसंजलण-भत्ति-बहुमाणयाए मणुस्स-देवसुगईओ निबंधइ। सिद्धिसोग्गइं च विसोहेइ । पसत्थाइं च णं विणयमूलाई सव्वकज्जाइं साहेइ । अन्ने य बहवे जीवे विणिइत्ता भवइ ॥४॥
व्याख्या-गुरु-साधर्मिकशुश्रूषणया तत्पर्युपासनया सेवया विनयप्रतिपत्तिमुचितकृत्याङ्गीकाररूपां जनयति । 'विणयपडिवन्ने य' त्ति प्रतिपन्नविनयोऽङ्गीकृतविनयो जीवोऽनत्याशातनाशीलो गुरुपरिवादाद्याशातनाविकलस्वभावो नैरयिकादिचतुर्दुर्गतीनिरुणद्धि निषेधति तद्धेतोरत्याशातनाया अभावेन तत्र गमनाभावात् । वर्णः श्लाघा तेन सज्वलनं गुणोद्भासनं भक्तिरभ्युत्थानादिका बहुमान आन्तरप्रीतिविशेषः ‘एषां द्वन्द्वे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org