________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
७०३ जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अणंताणुबंधिकोह-माण-माया-लोभे खवेइ । नवं कम्मं न बंधइ । तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए हवइ । दसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेणं सिज्झई । सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥१॥
व्याख्या-संवेगेन मोक्षाभिलाषेण हे भदन्त ! पूज्य ! जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थ इति प्रश्नः । अत्रोत्तरमाह-संवेगेनानुत्तरां प्रधानां धर्मश्रद्धां श्रुतधर्मादिक्रियारुचिं जनयति । तया अनुत्तरया धर्मश्रद्धया संवेगमर्थात् तमेव विशिष्टतरं 'हव्वं' त्ति शीघ्रमागच्छति । ततोऽनन्तानुबन्ध्यादिक्रोधादीन् क्षपयति । नवं च कर्म 'प्रस्तावादशुभं' न बध्नाति । 'तप्पच्चइयं' ति स एव कषायक्षयः प्रत्ययो निमित्तं यस्याः सा तत्प्रत्ययिका तां, मिथ्यात्वस्य विशुद्धिः सर्वथा क्षयो मित्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य 'प्रस्तावात् क्षायिकसम्यक्त्वस्य' आराधको निरतिचारपालको भवति । ततो दर्शनविशुद्ध्या विशुद्धया निर्मलया 'अत्थेगइए' त्ति अस्ति एककः कश्चिद् भव्यो यस्तेनैव भवग्रहणेन जन्मोपादानेन सिध्यति । को भावः ? यस्मान्नेव जन्मनि दर्शनस्य शुद्धिस्तत्रैव भवे मुक्तो भवति यथा मरुदेवास्वामिनी ऋषभदेवजननी । यस्तु न तेनैव भवेन सिध्यति स शुद्धया 'प्रक्रमाद् दर्शनस्य विशुद्ध्या' 'तच्चं' ति तृतीयं पुनर्भवग्रहणं नातिक्रामति नातिलति । अवश्यं तृतीयभवे सिध्यतीत्यर्थः । उत्कृष्टदर्शनाराधकापेक्षमेतद् । उक्तञ्च
"उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्झेज्झा ? ।
गोयमा ! उक्कोसेणं तेणेव भवेण, तइयं नाइकम्मइ" ॥ ॥१॥ संवेगाच्चावश्यम्भावी निर्वेद इति तमाह
निव्वेएणं भंते ! जीवे किं जणयइ ? । निव्वेएणं दिव्व-माणुस्सतेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ । सव्वविसएसु विरज्जइ । सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ । आरंभपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ । सिद्धिमग्गे पडिवन्ने भवइ ॥२॥
व्याख्या-'उत्तरत्र सर्वत्र सुगमत्वान्न प्रश्नव्याख्या' निर्वेदेन सामान्यतः संसार१. उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिद्ध्येत् ? ।
गौतम ! उत्कर्षेण तेनैव भवेन, तृतीयं नातिक्रामत् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org