________________
७१५
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
व्याख्या-अप्रतिबद्धतया मनसि निरभिष्वङ्गतया निस्सङ्गत्वं बहिः सङ्गाभावं जनयति । निस्सङ्गत्वगतो जीव एको रागादिविकलः, एकाग्रचित्तो धर्मैकतानमनाः, दिवा रात्रौ वाऽसजन् सदा बहिः सङ्गं त्यजन्नित्यर्थः । अप्रतिबद्धश्चापि विहरति मासकल्पादिनोद्यतविहारेण पर्यटतीति भावः ॥३०॥
अप्रतिबद्धता च विविक्तशयनासनतायां सम्भवत्यतस्तामाह
विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? । विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयइ । चरित्तगुत्ते य णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवन्ने अट्ठविहकम्मगंठिं निज्जरेइ ॥३१॥
__ व्याख्या-विविक्तानि स्त्र्याद्यसंसक्तानि शयनासनानि 'उपलक्षणत्वादुपाश्रयश्च' यस्य स तथा तस्य भावस्तत्ता तया चरित्रगुप्ति चरणरक्षां जनयति । 'सूत्रत्वाद् गुप्तचरित्रश्च जीवो विविक्तो विकृत्यादिबंहकवस्तुरहित आहारो यस्य स विविक्ताहारः, तथा दृढं निश्चलं चरित्रं यस्येति दृढचरित्रः, तत एवैकान्तेन निश्चयेन रत आसक्त एकान्तरतः 'संयमे इति गम्यम्', मोक्षे भावेन मनसा प्रतिपन्न आश्रितो मोक्षभावप्रतिपन्नो मोक्ष एव मया साधयितव्य इत्यर्थः । अष्टविधं कर्म ग्रन्थिरिव ग्रन्थिर्दुर्भेदतयाष्टविधकर्मग्रन्थिस्तं निर्जरयति क्षपयति ॥३१॥
विविक्तशयनासनतायां च विनिवर्तना स्यादिति तामाह
विणिवट्टणयाए णं भंते ! जीवे किं जणयइ ? । विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुढेइ । पुव्वबद्धाण य निज्जरणयाए तं नियत्तेइ । तओ पच्छा चाउरंतं संसारकंतारं वीइवयइ ॥३२॥
व्याख्या-विनिवर्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पापकर्मणां सावद्यानुष्ठानानामकरणतया मया न पापानि कर्तव्यानित्येवंरूपया अभ्युत्तिष्ठते धर्म प्रत्युत्सहते । पूर्वबद्धानां 'पापकर्मणामिति प्रक्रमः' निर्जरणया 'चशब्दादभिनवानुपादानेन' पापकर्म निवर्तयति निर्वासयति । ततः पश्चाच्चतुरन्तं संसारकान्तारं व्यतिव्रजतीति स्पष्टम् ।।३२।।
विषयविनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवान् सम्भवत्यतस्तदाह
संभोगपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? । संभोगपच्चक्खाणेणं आलंबणाई खवेइ । निरालंबणस्स य आयतट्ठिया जोगा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org