SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् अनन्तराध्ययने मोक्षमार्गगतिरुक्ता । सा च वीतरागत्वपूर्विकेति यथा तत् स्यात् तथाभिधायकमेकोनत्रिंशमध्ययनमारभ्यते । तत्रादिसूत्रम् - सुयं मे आउ ! तेणं भगवया एवमक्खायं । इह खलु सम्मत्ततपरक्कमे नामज्झयणे समणेणं भवगया महावीरेणं कासवेणं पवेइए । जं सम्मं सद्दहित्ता पत्तियाइत्ता रोयइत्ता फासित्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहित्ता आणाए अणुपालइत्ता बहवे जीवा सिज्झति बुज्झति मुच्वंति परिनिव्वायंति सव्वदुक्खणमंतं करेंति ॥ व्याख्या- श्रुतं मे मया आयुष्मन्निति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह । तेन भगवता 'प्रक्रमाद् वीरेण' एवमिति वक्ष्यमाणप्रकारेणाख्यातं कथितम् । तमेवाह - इहास्मिन् जगति प्रवचने वा खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणोऽर्थाज्जीवस्यास्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन काश्यपगोत्रोद्भवेन प्रवेदितं स्वतः प्रवेदितमेव भगवता ममेदमाख्यातमिति भावः । यदित्येतदध्ययनं सम्यक् श्रद्धाय शब्दार्थोभयरूपं सामान्येन प्रतिपद्य, प्रतीत्य विशेषत इत्थमेवेति निश्चित्य, रोचयित्वा तदध्यायनविषयं तदुक्तार्थानुष्ठानविषयं वाभिलाषमात्मन उत्पाद्य, स्पृष्ट्वा तदुक्तानुष्ठानतः, पालयित्वा तदुक्तानुष्ठानस्यातीचाररक्षणेन, तीरयित्वा तदुक्तानुष्ठानं पारं नीत्वा, कीर्तयित्वा स्वाध्यायविधानतः संशब्ध, शोधयित्वा तदुक्तानुष्ठानस्य तत्तद्गुणस्थानावाप्तितः शुद्धिप्रापणेन, आराध्य यथावदुत्सर्गापवादकौशल्येन तदर्थासेवनेन । एतत् किं स्वमनीषिकया ? नेत्याह - आज्ञया गुरुनियोगरूपया अनुपाल्य नित्यमासेव्य बहवो जीवाः सिध्यन्ति इहैवागमसिद्धत्वादिना, बुध्यन्ते घातिकर्मक्षयेण मुच्यन्ते भवोपग्राहिकर्मचतुष्टयेन, परिनिर्वान्ति कर्मदावानलोपशमनेनात एव सर्वदुःखानां शारीर-मानसानामन्तं विनाशं कुर्वन्ति मोक्षावाप्त्येति ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy