________________
७००
नाणेण जाणई भावे दंसणेण य सहे । चरित्तेण न गेण्हाइ तवेणं परिसुज्झई ॥३५॥
व्याख्या - ज्ञानेन मत्यादिना जानाति भावान् जीवादीन् । दर्शनेन च श्रद्धत्ते । चारित्रेण न गृह्णाति नादत्ते 'कर्मेति गम्यम्' । तपसा परिशुध्यति पूर्वोपचितकर्मापगमतः शुद्धो भवति ||३५||
अथ मोक्षफलभूतां गतिमाह
उत्तरज्झयणाणि - २
खवित्ता पुव्वकम्माई संजमेण तवेण य । सव्वदुक्खप्पहीणट्ठा पक्कमंति महेसिणो ॥ ३६ ॥ त्ति बेमि ॥
व्याख्या - क्षपयित्वा पूर्वार्जितकर्माणि ज्ञानावरणादीनि संयमेन सप्तदशभेदेन, तपसा द्वादशविधेन 'चशब्दात् ज्ञान- दर्शनाभ्यां च' । 'प्राकृतत्वात्' प्रहीणानि प्रकर्षेण हानिं गतानि सर्वदुःखानि यत्र तत् तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्ति तद्गामितया ये ते तथाविधाः प्रक्रामन्ति भृशं गच्छन्ति 'सिद्धिमिति शेषः ' 'महेसिणो' त्ति महर्षय इति ब्रवीमीत्यादि प्राग्वत् ||३६|| ग्रं० २८७ अ० ११॥
इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां अष्टाविंशं मोक्षमार्गीयमध्ययनं समाप्तम् ॥२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org