SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ६९९ अष्टाविंशं मोक्षमार्गीयमध्ययनम् जघन्यं चतुर्थं मध्यमं षष्ठमुत्कृष्टमष्टमम् । शिशिरे जघन्यं षष्ठं मध्यममष्टममुत्कृष्टं दशमम् । वर्षासु जघन्यमष्टमं मध्यमं दशममुत्कृष्टं द्वादशमम् । पारणके चाचाम्लम् । किञ्च श्रुतोक्तासु सप्तसु भिक्षास्वाद्ययोभिक्षयोर्नियमोऽग्रेतनासु पञ्चसु भिक्षाग्रहणं तेषामिति । कास्ताः सप्त? इत्यत्रागमः "संसट्टठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । ___ उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया" ॥१॥ कल्पस्थितादयः पञ्च प्रत्यमाचाम्लमेव कुर्वन्त्येवं षण्मासं यावत् तपः कृत्वा परिहारका अनुपरिहारका भवन्त्यनुपरिहारकाः परिहारकीभूय षण्मासं यावदेवं तपः कुर्वन्ति। ततः कल्पस्थितस्तेनैव विधिना षण्मासं यावत् तत् तपः करोति । शेषेष्वेकः कल्पस्थितः स्थाप्यतेऽन्ये सर्वेऽप्यनुपरिहारकाश्चेत्येवमष्टादशमासप्रमाणः कल्पो ज्ञातव्यः । कल्पसमाप्तौ तु पुनः परिहारविशुद्धिकं जिनकल्पं वा गच्छं वा श्रयन्ते । एतत्कल्पप्रतिपद्यमानका जिनस्य जिनपार्शसेवकस्य वा समीपे प्रतिपद्यन्ते नान्यस्य पार्श्वे इति एतेषां यच्चारित्रं तत् परिहारविशुद्धिकं तृतीयम् । 'तथेत्यानन्तर्ये' छन्दोभङ्गभयादेवमुपन्यासः 'बिन्दुश्चार्षत्वात्' सूक्ष्मः किट्टीकरणतः सम्परायो लोभाख्यः कषायो यस्मिस्तत् सूक्ष्मसम्परायम् । एतच्चोपशमश्रेणि-क्षपक श्रेण्योर्लोभाणुवेदनमसये सम्भवतीति चतुर्थः ॥ अकषायं क्षपितोपशमितकषायावस्थाभावि यथाख्यातमहत्कथितस्वरूपानतिक्रमवत् छद्मस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनो जिनस्य वा केवलिनस्तत् पञ्चमं चारित्रम्। एतत् सामायिकादि चयस्य राशेः 'प्रस्तावात् कर्मणां' रिक्तं विरेकोऽभाव इत्यर्थस्तत् करोतीत्येवंशीलं चयरिक्तकरं चारित्रं भवत्याख्यातं कथितं 'अर्हदादिभिरिति गम्यते' इति गाथाद्वयार्थः ॥३३॥ तपोरूपं मार्गमाह तवो य दुविहो वुत्तो बाहिरभितरो तहा । बाहिरो छव्विहो वुत्तो एवमभितरो तवो ॥३४॥ व्याख्या-तपश्च द्विविधमुक्तं बाह्यमाभ्यन्तरं तथा । तत्र बाह्यं षड्विधमेवमाभ्यन्तरमपीति ॥३४॥ ज्ञानादीनां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ? इत्याह १. संसृष्टाऽसंसृष्टे उद्धृता तथाऽल्पलेपा चैव । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy