________________
६९८
उत्तरज्झयणाणि-२ निन्दा तदभावो निर्विचिकित्सं निर्विज्जुगुप्सं वा 'आर्षत्वादेवं पाठः सूत्रे' । अमूढा ऋद्धि-मत्कुतीर्थिकदर्शनेऽप्यवगीतमस्मदर्शनमिति मोहरहिता दृष्टिर्बुद्धिरूपा अमूढदृष्टिः । अयं चतुर्विधोऽप्याचार आन्तर उक्तः । बाह्यं त्वाह-'उववूह' त्ति उपबंहा दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्धनं सा च स्थिरीकरणं चाभ्युपगतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनमुपबृंहा-स्थिरीकरणे । वात्सल्यं सार्मिकजनस्य भक्त-पानाधुचितप्रतिपत्तिकरणं तच्च प्रभावना च स्वतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनात्मिका वात्सल्य-प्रभावने । अष्टैते 'दर्शनाचाराः स्युरिति शेषः । एतच्च ज्ञानाचाराद्युपलक्षकम्, यद्वा दर्शनस्यैव यदाचाराभिधानं तदस्यैवोक्तन्यायेन मोक्षमार्गमूलतासमर्थनार्थम् ॥३१॥ एवं ज्ञान-दर्शनाख्यं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमेवाह
सामाइय त्थ पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥३२॥ अकसायं अहक्खायं छउमत्थस्स जिणस्स वा ।
एयं चयरित्तकरं चारित्तं होइ आहियं ॥३३॥ अनयोर्व्याख्या-समो राग-द्वेषरहित: 'प्रस्तावाच्चित्तपरिणामः' तस्मिन्नायो गमनं समायो यद्वा समानां ज्ञान-दर्शन-चारित्राणामायो लाभः समायः स एव सामायिकं सर्वसावधविरतिरूपम् 'यद्यपि सर्वमपि चारित्रमविशेषतः सामायिकं तथापि च्छेदादिविशेषैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते' प्रथमं पुनरविशेषणात् सामान्यशब्द एवावतिष्ठते । एतच्च द्विधा इत्वरं यावत्कथिकं च । तत्रेत्वरमल्पकालं भरतैरावताद्यान्त्याहत्तीर्थयोरुपस्थापनायां छेदोपस्थापनीयचारित्रसद्भावेन तत्र तव्यपदेशाभावात् । यावत्कथिकं च भरतैरावतयोर्मध्यमतीर्थकृत्तीर्थेषु महाविदेहार्हत्तीर्थेषु चोपस्थापनाया अभावात् तद्व्यपदेशस्य यावज्जीवमपि सम्भवात् 'त्थ इति पादपूरणे' तत् प्रथमं चारित्रं सामायिकं । तथा च्छेदः पूर्वपर्यायव्यवच्छेदरूपस्तद्युक्तोपस्थापना महाव्रतोपणरूपा यस्मिंस्तच्छेदोपस्थापनम् । तदपि द्विधा निरतिचारं सातिचारं च । तत्र निरतिचारं यदित्वरसामायिकस्य शैक्षकस्य तीर्थान्तरं प्रतिपद्यमानस्य वा व्रतमारोप्यते, सातिचारं तु मूलघातिनो यतेर्यत् पुनर्वतारोपणं तद् भवेद् द्वितीयं चारित्रम् । तथा परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिस्तत्परिहारविशुद्धिकं । तद् द्विभेदं निर्विशमानकं निर्विष्टकायिकं च । तत्राद्यास्तदासेवका द्वितीयास्त्वासेवितविवक्षितचारित्रकास्तदभेदाच्चारित्रमपि तथा । अत्र च नवको गणस्तत्र चत्वारः परिहारका अन्ये तद्वैयावृत्त्यकराश्चत्वारोऽनुपरिहारका एकस्तु कल्पस्थितो वाचनाचार्यः । एतेषां चायं परिहारस्तथाहि-एतच्चारित्रवतामारम्भत एव ग्रीष्मे
__Jain Education International 2010-02
For Private & Personal Use Only
www.jainelibrary.org