________________
६९७
अष्टाविंशं मोक्षमार्गीयमध्ययनम् समुच्चये' । 'दर्शनशब्दः प्रत्येकमभिसम्बध्यते' व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनास्तादृक्कर्मोदयाद् वान्तसम्यक्त्वा निह्नवादयः तथा कुदर्शनाः शाक्यादयस्तेषां वर्जनं परिहारो व्यापन्नकुदर्शनवर्जनम् 'सर्वत्र सूत्रत्वात् स्त्रीत्वम्, चः समुच्चये' सम्यक्त्वं श्रद्धीयते-अस्तीति प्रतिपद्यतेऽनेनेति श्रद्धानं सम्यक्त्वलिङ्गमित्यर्थः ॥२८॥ सम्यक्त्वमाहात्म्यमाह
नत्थि चरित्तं सम्मत्तविहूणं दंसणे उ भइयव्वं ।
सम्मत्त-चरित्ताई जुगवं पुव्वं व सम्मत्तं ॥२९॥ व्याख्या-नास्ति न विद्यते 'उपलक्षणत्वान्नासीन्न भविष्यति' चारित्रं सम्यक्त्वविहीनम् । को भावः ? यावन्न सम्यक्त्वोत्पादो न तावच्चारित्रम् । दर्शने तु सम्यक्त्वे सति पुनर्भक्तव्यं भजनीयं भवति वा न वा 'अर्थाच्चारित्रम्' । यतः सम्यक्त्व-चारित्रे युगपदेककालं 'उत्पद्यते इति शेषः' । 'पुव्वं व' त्ति पूर्वं वा चारित्रोत्पादात् सम्यक्त्वोत्पत्तिः । ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यक्त्वे न चारित्रमिति दर्शने भाज्यमिति ॥२९॥ अन्यच्च
नादंसणिस्स नाणं नाणेण विणा न हुंति चरणगुणा ।
अगुणिस्स नत्थि मोक्खो नत्थि अमोक्खस्स निव्वाणं ॥३०॥ व्याख्या-नादर्शनिनो दर्शनरहितस्य ज्ञानमिति सम्यग्ज्ञानम् । ज्ञानेन विना न भवन्ति चरणगुणाः, अत्र चरणं व्रतादि, गुणाः पिण्डविशुद्ध्यादयः । अगुणिनोऽविद्यमानगुणस्य 'चरणाविनाभावित्वाद् यथोक्तगुणानाम्' अविद्यमानचरणस्य च नास्ति मोक्षः कर्मक्षयलक्षणः । नास्त्यमुक्तस्य 'कर्मणेति गम्यते' निर्वाणं निर्वृतिर्मुक्तिपदप्राप्तिरित्यर्थः ॥३०॥ सम्यक्त्वस्याष्टाचारानाह
निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य ।
उववूह-थिरीकरणे वच्छल्ल-पभावणे अट्ठ ॥३१॥ व्याख्या-निःशङ्कितं देशतः सर्वतश्च शङ्कारहितम् । निष्काङ्कितं शाक्याद्यन्यान्यदर्शनग्रहात्मककाङ्क्षारहितम् । विचिकित्सा फलं प्रति सन्देहो यथा किमियतः क्लेशस्य फलं स्यादुत नेति ? अथवा विदो विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा यथा किममी यतयो मलदिग्धदेहाः ? प्रासुकजलस्नानेन हि कोऽत्र दोषः स्यादित्यादि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org