SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ६९६ उत्तरज्झयणाणि-२ इत्युक्त्वोत्पतिते साधौ मन्त्रवत् तत् पदत्रयम् । ध्यायतस्तस्य तस्यार्थो जागरूकोऽभवद् हृदि ॥३७॥ "क्रोधत्यागो ह्युपशमो हेयोपादेयबोधकः । विवेकः संवरस्तु स्यात् संवृतेन्द्रियचित्तता" ॥३८॥ इत्थं पदत्रयस्यार्थं भावयन् शुभभावतः । एकान्तेऽस्थात् प्रतिमया मुक्तशीर्षाऽसिसङ्ग्रहः ॥३९॥ सूचिमुख्योऽसृजो गन्धात् तत्र प्राप्ताः पिपीलिकाः । व्यधुरतिविधायिन्यस्तद्वपुश्चालिनीनिभम् ॥४०॥ दुष्कर्मनिर्गमद्वारकर्तृत्वेनोपकारिकाः । ममैताः कीटिका एवं शुद्धध्यानं बभार सः ॥४१॥ पिपीलिकाकृतां पीडां सहमानोऽद्रिनिश्चलः । स्वः सौख्यमाप सद्ध्यानः सार्धाहर्युगलेन सः ॥४२॥ इति सक्षेपरुचौ चिलातीपुत्रकथा ॥२६॥ धर्मरुचिमाह जो अस्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइ त्ति नायव्वो ॥२७॥ व्याख्या-योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तम् 'जातावेकचनम्', श्रुतधर्ममङ्गप्रविष्टादिरूपम्, 'खलुरलङ्कारे' चारित्रधर्मं वा सामायिकादि 'चस्य वार्थत्वात्', श्रद्दधाति तथेति प्रतिपद्यते जिनाभिहितं स धर्मरुचिरिति ज्ञातव्यः । शिष्यमतिव्युत्पत्त्यर्थं चेत्थं सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित् केषाञ्चिदन्तर्भाव इति भावः ॥२७॥ सम्यक्त्वलिङ्गानाह परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वा वि । वावन्नकुदंसणवज्जणा य सम्मत्तसद्दहणा ॥२८॥ व्याख्या-परमार्था जीवादयस्तेषु संस्तवो गुणोत्कीर्तनम्, तत्स्वरूपपरिभावनाजनित परिचयो वा परमार्थसंस्तवः । तथा सुष्ठ यथावद्दर्शितया दृष्टाः परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था आचार्यादयस्तेषां सेवनम् 'वाशब्दाद् यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy