________________
६९५
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
क्रमात् प्रापाटवीं श्रेष्ठी क्षुत-तुट-शोक-श्रमातपैः । पञ्चाग्निसाधक इवातेपे च सुतसंयुतः ॥२३॥ न खाद्यं नैव पेयं च न तस्यां जीवनौषधम् । पश्यन् हिंस्रादिजीवेभ्यो मृत्यूपायं च केवलम् ॥२४॥ आत्मनस्तनयानां च स दृष्ट्वा विषमां दशाम् । गच्छन् विचिन्तयेदेवं चित्ते दैवविजृम्भितम् ॥२५।। "यत् सुताऽपहृताऽनेन प्रापिता वयमापदम् । करस्थं नाशयत्येवं बलीयान् विधिरुच्चकैः ॥२६॥ प्रसाद्यते न दानेन विनयेन न गृह्यते । सेवयाऽऽवय॑ते नैव केयं दुःसाध्यता विधेः ? ॥२७॥ विबुधैर्बोध्यते नैव बलवद्भिर्न रुध्यते । न साध्यते तपस्यद्भिः प्रतिमलोऽस्तु को विधेः ? ॥२८॥ अहो ! दैवं मित्रमिव कदाचिदनुकम्पते । कदाचित् परिपन्थीव निःशङ्कं प्रणिहन्ति च ॥२९॥ विधिः पितेव सर्वत्र कदाचित् परिरक्षति । कदाचित् पीड्यत्येव दायाद इव दुर्मदः ॥३०॥ अनुकूले विधौ पुंसां विषमप्यमृतायते । विपरीते पुनस्तत्रामृतमेव विषायते" ॥३१॥ स एवं चिन्त्यन्नेव सम्प्राप निजमन्दिरम् । सशोकः सुंसुमापुत्र्या विदधे चौर्ध्वदेहिकम् ॥३२॥ संसारानित्यतां श्रेष्ठी विरागार्हो विभावयन् । श्रीवीरान्ते परिव्रज्य तपस्तप्त्वाऽगमद् दिवम् ॥३३॥ चैलातेयः पुरो गच्छन् पश्चात्तापपरः पथि ।। ध्यानलीनं मुनि कञ्चित् कायोत्सर्गस्थमैक्षत ॥३४॥ क्रूराकृतिः क्रूरकर्मा स उवाच महामुने ! । सङ्क्षपाद् धर्ममाचक्ष्व न चेच्छेत्स्यामि ते शिरः ॥३५॥ "योग्यं मत्वा मुनिः प्राहोपशमः कार्य एव भोः !। विवेकः संवरचैते कृतपातकघातकाः" ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org