SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशं मोक्षमार्गीयमध्ययनम् ६९३ गुप्तयस्तासु, यः क्रियाभावरुचिः को भावः ? दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेति प्रकाशभणने । इह चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां विशेषतो मुक्त्यङ्गत्वख्यापनार्थं पुनरभिधानम् ॥२५॥ सझेपरुचिमाह अणभिग्गहियकुदिट्ठी संखेवरुइ त्ति होइ नायव्यो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसु ॥२६॥ व्याख्या-अनभिगृहीताऽनङ्गीकृता कुदृष्टिः सौगतमतादिरूपा येन स तथा सक्षेपरुचिरिति भवति ज्ञातव्यः । अविशारदोऽकुशलः प्रवचने सर्वज्ञशासने, अविद्यमानमभीत्याभिमुख्येन गृहीतं ग्रहणं ज्ञानमस्येत्यनभिगृहीतोऽनभिज्ञ इत्यर्थः । क्व ? इत्याह-शेषेषु कपिलादिमतेषु । अयं भावो य उक्तविशेषणः सङ्क्षपेणैव चिलातीपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमाप्नोति स सक्षेपरुचिरिति । अत्र दृष्टान्तः क्षितिप्रतिष्ठिते द्रले क्षमाभृत्साधुशालिनि । क्षितिप्रतिष्ठितद्विष्टक्षमाभृत्साधुमालिनि ॥१॥ विशंमन्यो यज्ञदेवद्विजो मिथ्यात्ववासितः । यज्ञे निन्दन् जिनान् जैनयतिना वादमातनोत् ।२।। जितस्य तस्य चादायि दीक्षा तेन महात्मना ।। स शिष्यो यो जितो जेतुर्भवितेति प्रतिज्ञया ॥३॥ सोऽथ शासनदेव्योचे भोः ! व्रतं चर भावतः । तेनैव सफलं तच्च तेजसेवाक्षियुग्मकम् ॥४॥ न सव्रतोऽप्यसौ साधुनिन्दामन्तर्वसन् जहौ । शावलोऽपीक्षुसक्तोऽपि निम्बः किं कटुतां त्यजेत् ? ॥५॥ तत्प्रेयसी प्रिये रागं नौज्झत् सद्वाग्भिरप्यलम् । कम्बलीवाब्दधाराभिः कृमिरागं सुरञ्जिता ॥६॥ ततः सा तं वशीकर्तुं व्यधात् कार्मणमुत्कटम् । वशा रक्ता विरक्ताऽपि वह्निज्वालेव तापयेत् ॥७॥ कार्मणेन क्रमात् सोऽथोष्णेनेव व्रततिव्रजः । सन्ततं शोष्यमाणाङ्गः स्वर्गलोकमवाप्तवान् ॥८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy