SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ६९२ उत्तरज्झयणाणि-२ बीजरुचिमाह एगेण अणेगाइं पयाइं जो पसरई उ सम्मत्तं । उदए व्व तेल्लबिंदू सो बीयरुइ त्ति नायव्वो ॥२२॥ व्याख्या-एकेन 'प्रक्रमात् पदेन' जीवादिना 'सुब्ब्यत्ययात्' अनेकेषु बहुषु पदेषु जीवादिषु 'तुरेवार्थे' यः प्रसरत्येव व्यापकबुद्धितया 'सम्मत्तं' त्ति अभेदोपचारात् सम्यक्त्ववान् । क्व क इव ? उदक इव तैलबिन्दुर्यथोदकैकदेशगतोऽपि तैलबिन्दुः सर्वमुदकमाक्रामति तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमादशेषतत्त्वेषु रुचिमान् भवति । स एवंविधो बीजरुचिख़तव्यो यथा ह्येकमपि बीजं क्रमेणानेकबीजानां जनकमेवमस्यापि रुचिविषयभेदतो रुच्यन्तराणामिति ॥२२॥ अभिगमरुचिमाह सो होइ अभिगमरुई सुअनाणं जेण अत्थओ दिटुं । एक्कारसमंगाई पइन्नगं दिट्ठिवाओ य ॥२३॥ व्याख्या-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थत इति 'क्यब्लोपे पञ्चमी' ततोऽर्थोऽभिधेयस्तमाश्रित्य दृष्टमुपलब्धं । को भावः ? येन श्रुतज्ञानस्यार्थोऽधिगतो भवति । किं ततः श्रुतज्ञानम् ? इत्याह-एकादशाङ्गान्याचाराङ्गादीनि । प्रकीर्णकमिति जातावेकत्वम् । ततः प्रकीर्णकान्युत्तराध्ययनादीनि । दृष्टिवादः परिकर्मसूत्रादिः 'चशब्दादुपाङ्गान्यौपपातिकादीनि' ॥२३॥ विस्ताररुचिमाह दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहीहि य वित्थाररुइ त्ति नायव्वो ॥२४॥ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वाद्यशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः 'सव्वाहि' ति सर्वैर्नयविधिभिनँगमादिभेदैः स विस्ताररुचिरिति ज्ञातव्यः ॥२४॥ क्रियारुचिमाह दंसण-नाण-चरित्ते तव-विणए सच्चसमिइ-गुत्तीसु । जो किरियाभावरुई सो खलु किरियारुई नाम ॥२५॥ व्याख्या-दर्शन-ज्ञान-चारित्रे, तपो-विनये, सत्या निरुपचरिता याः समिति Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy