SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशं मोक्षमार्गीयमध्ययनम् ६९१ ज्ञानरूपं यस्यापगतं नष्टं भवति 'सर्वथास्यैतदपगमासम्भवाद् देशत इति गम्यते' 'अपगतशब्दो रागादिभिः प्रत्येकं सम्बध्यते' । एतदपगमाच्च 'आणाए रोयंतो' त्ति आज्ञयाचार्यादिसम्बन्धिन्या रोचमानस्तथेति प्रतिपद्यमानो जीवादि माषतुषादिवत् स 'खलुर्निश्चये' आज्ञारुचिः 'नामेत्यभ्युपगमे ज्ञेयः' । अत्र दृष्टान्तः भन्दकन्दवसन्ताभे श्रीवसन्तपुरेऽभवत् । धर्मघोषगुरोः शिष्यः शिक्षाद्वयसुशिक्षितः ॥१॥ तप्यमानस्तपस्तीवं व्रतकर्मसु कर्मठः । योगोद्वहनपूर्वं सोऽधीयानः श्रुतमादरात् ।।२।। अन्येधुरुदयात् ज्ञानावरणीयस्य कर्मणः । एकमप्यक्षरं नागात् प्राकृतस्याशुभायतेः ॥३॥ नित्यं पुनः पुनस्तस्य समुद्घोषयतः श्रुतम् । सुगुरूनाह किं कुर्वे सर्वेऽप्युपहसन्ति माम् ॥४॥ गुरुणोचे महाभाग ! मा रुषो मा तुषश्च भोः ! । एतदेव पदं शश्वत् त्वमुद्घोषय भावतः ॥५॥ प्रमाणं मेऽस्तु गुर्वाज्ञा गुरूक्तं तत्पदं पठन् । गुरूदितपदस्थाने मौग्ध्यान्मा तुषेत्यवक् ॥६॥ प्राख्यद् गुरुः पुनर्भद्र ! मा रुषेत्यादिकं पठ । तत्कर्मदोषतो माषेत्याद्येव स पठेन्मुहुः ॥७॥ आज्ञाश्रद्धः स सद्ध्यानो माषेत्यादि पठन् मुहुः । केवलं प्राप्य संक्षीणकृत्स्नकर्माऽऽप निर्वृतिम् ।।८।। इत्याज्ञारुचौ माषतुषमुनिकथा ॥२०॥ सूत्ररुचिमाह जो सुत्तमहिज्जंतो सुएण उगाहई उ सम्मत्तं । __ अंगेण बाहिरेण व सो सुत्तरुइ त्ति नायव्वो ॥२१॥ व्याख्या-यः सूत्रमागममधीयानः पठन् श्रुतेनाऽधीयमानेनाऽवगाहते प्राप्नोति 'तुः पूरणे' सम्यक्त्वम् । अङ्गेनाचारादिना बाह्येन वाऽनङ्गप्रविष्टेनोत्तराध्ययनादिना वा स गोविन्दवाचकवत् सूत्ररुचिख़तव्यः ॥२१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy