SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ६९० उत्तरज्झयणाणि-२ व्यासार्थमाह भूयत्थेणाहिगया जीवाजीवा य पुन्न-पावं च । सहसंमइयासव-संवरे य रोएइ उ निसग्गो ॥१७॥ व्याख्या-भूतः सद्भूतः सत्योऽर्थो विषयो यस्य तद् भूतार्थं 'ज्ञानमिति गम्यते' तेन सद्भूता अमी अर्था इत्येवं रूपेणाधिगताः परिच्छिन्नाः 'येनेति गम्यते' । जीवाजीवाश्च पुण्य-पापं च । कथमधिगताः ? इत्याह-'सहसंमइय' त्ति 'सोपस्कारत्वात्' सहात्मना सङ्गता मतिः सहसम्मतिः कोऽर्थः ? परोपदेशनिरपेक्षा जातिस्मरणप्रतिभादिरूपा बुद्धिः सहसम्मतिस्तया आश्रव-संवरौ 'चशब्दाद् बन्धादिपरिग्रहः, तुरेवार्थे' रोचत एव श्रद्धत्ते एव योऽधिगतानन्तरोक्तान् जीवादीनेव स निसर्गरुचि: 'ज्ञेय इति शेषः' ॥१७॥ अमुमेवार्थं पुनः स्पष्टन्नाह जो जिणदिवे भावे चउव्विहे सद्दहइ सयमेव ।। एमेव नन्नह त्ति य स निसग्गरुइ त्ति नायव्वो ॥१८॥ व्याख्या-यो जिनदृष्टानर्हदुपदिष्टान् भावान् जीवादींश्चतुर्विधान् द्रव्य-क्षेत्र-कालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति तथेति प्रतिपद्यते स्वयमेवान्योपदेशं विना । श्रद्धानमेवोल्लेखयति ‘एमेव' त्ति एवमेतद् यथा जिनैदृष्टं जीवादि नान्यथेति 'चः समुच्चये' स निसर्गरुचिरिति ज्ञातव्यः ॥१८॥ उपदेशरुचिमाह एए चेव उ भावे उवढे जो परेण सद्दहई । छउमत्थेण जिणेण व उवएसरुइ त्ति नायव्वो ॥१९॥ व्याख्या-एतांश्चैव 'तुः पूरणे' भावान् जीवादीनुपदिष्टान् परेणान्येन श्रद्दधाति, कीदृशेन परेण ? छद्मस्थेनानुत्पन्नकेवलेन जिनेन वोत्पन्नकेवलज्ञानेनार्हदादिना स उपदेशरुचिरिति ज्ञातव्यः ॥१९॥ आज्ञारुचिमाह रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥२०॥ व्याख्या-रागोऽभिष्वङ्गो द्वेषोऽप्रीतिर्मोहः शेषमोहनीयप्रकृतयोऽज्ञानं मिथ्या Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy