________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
६८९ दर्शनं वक्तुमाह
जीवाजीवा य बंधो य पुन्नं पावासवो तहा ।
संवरो निज्जरा मोक्खो संतेए तहिया नव ॥१४॥ व्याख्या-जीवाश्चैतन्यलक्षणाः । अजीवा धर्मास्तिकायादयः । बन्धश्च जीव-कर्मणोः संश्लेषः । पुण्यं शुभप्रकृतिरूपम् । पापमशुभं मिथ्यात्वादि । आश्रवः कर्मबन्धहेतुहिंसादिः । तथा संवरो गुप्त्यादिभिराश्रवनिरोधः । निर्जरा विपाकात् तपसो वा कर्मपरिशाटः । मोक्षः कृत्स्नकर्मक्षयात् स्वस्वरूपावस्थानम् । सन्त्येते तथ्या सत्या निरुपचरितवृत्तयो नवसङ्ख्या: 'भावा इति शेषः' । मध्यमापेक्षं चेदम् । जघन्यतो जीवाजीवयोरेव बन्धादीनामन्तर्भावाद् द्विसङ्ख्यैव । उत्कृष्टतस्तु तदुत्तरोत्तरभेदविवक्षयानन्त्यमेव स्यादिति ॥१४॥ ततः किम् ? इत्याह
तहियाणं तु भावाणं सब्भावे उवएसणं ।
भावेण सद्दहंतस्स सम्मत्तं तं वियाहियं ॥१५॥ व्याख्या-तथ्यानां तु भावानां जीवादिस्वरूपाणां सद्भावे सद्भावविषयमवितथसत्ताऽभिधायकमुपदेशनं गुर्वाधुपदेशं भावेन मनसा श्रद्दधतस्तथेति प्रतिपद्यमानस्य सम्यग् भावः सम्यक्त्वं दर्शनमित्यर्थः । तदिति भाव श्रद्धानं मोहनीयकर्माणुक्षयक्षयोपशमसमुत्थात्मपरिणामरूपं विशेषेणाख्यातं कथितम् 'अर्हदादिभिरिति गम्यम्' ॥१५॥ सम्यक्त्वभेदानाह
निसग्गुवएसरुई आणारुई सुत्त-बीयरुइमेव ।
अभिगम-वित्थाररुई किरिया-संखेव-धम्मरुई ॥१६॥ व्याख्या-रुचिशब्दः प्रत्येकं योज्यते । निसर्गः स्वभावस्तेन रुचिरभिलाषरूपाऽस्येति निसर्गरुचिः । उपदेशेन गुर्वादिवचनेन रुचिरस्येत्युपदेशरुचिः । आज्ञया सर्वज्ञवचोरूपया रुचिरस्य स तथा । सूत्रेणागमेन रुचिरस्य सूत्ररुचिः । बीजमिव बीजं यदेकमप्यनेकार्थबोधकं वचस्तेन रुचिर्यस्य स बीजरुचिः 'अनयोर्द्वन्द्वे रुचिशब्दोऽपि योज्यः' 'एवेति समुच्चये' । अभिगमो ज्ञानं विस्तारो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दयोजनादभिगमरुचिविस्ताररुचिश्चेति । तथा क्रिया धर्मानुष्ठानं, संक्षेपः संग्रहः, धर्मः श्रुतधर्मादिः, तेषु रुचिरस्येति प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिः, संक्षेपरुचिधर्मरुचिश्चेति 'विज्ञेय इति शेषः' । इह सम्यक्त्वस्य जीवानन्यत्वेन यदभिधानं गुणगुणिनोः कथञ्चिदभेदख्यापनार्थमिति संक्षेपार्थः ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org