________________
६८८
उत्तरज्झयणाणि-२ व्याख्या-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कः कालः ? सर्वथा वर्तनया लक्ष्यमाणत्वादस्ति काल इति भावः । जीव उपयोगो मतिज्ञानादि लक्षणं रूपमस्यासावुपयोगलक्षणोऽत एव ज्ञानेन विशेषग्राहिणा, दर्शनेन च सामान्यविषयेण, सुखेन दुःखेन च 'लक्ष्यते इति गम्यते' । न हि ज्ञानादीन्यजीवेषु कदाचिदुपलभ्यन्त इति ॥१०॥ जीवस्यैव लक्षणमनूद्य लक्षणान्तरमाह
नाणं च दंसणं चेव चरितं च तवो तहा ।
वीरियं उवओगो य एयं जीवस्स लक्खणं ॥११॥ व्याख्या-स्पष्टा । नवरं वीर्यं वीर्यान्तरायक्षय-क्षयोपशमसमुत्थं सामर्थ्यम् । उपयोगश्चावहितत्वम् । एतत् ज्ञानादि जीवस्य लक्षणम् । एतैर्हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥११॥ पुद्गलानां लक्षणमाह
सबंधयार उज्जोओ पहा छायातवे इ वा ।
वन्न-रस-गंध-फासा पुग्गलाणं तु लक्खणं ॥१२॥ व्याख्या-शब्दोऽन्धकार: 'उभयत्र सुपो लुप्' । उद्योतो रत्नादेः प्रकाशः । प्रभा चन्द्रादेः । छाया शैत्यगुणा । आतपो स्वरुष्णप्रकाशः 'इतिराद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये' वर्ण-गन्ध-रस-स्पर्शास्तु पुनः पुद्गलानां लक्षणम् । एभिरेव तेषां लक्ष्यत्वात् ॥१२॥ पर्यायलक्षणमाह
एगत्तं च पुहत्तं च संखा संठाणमेव य ।
संजोगा य विभागा य पज्जवाण तु लक्खणं ॥१३॥ व्याख्या-एकस्य भाव एकत्वम्, भिन्नेष्वपि परमाण्वादिषु यकेदोऽयं घटादिरिति प्रतीतिहेतुः । 'चशब्द उत्तरापेक्षया समुच्चयार्थः' । पृथक्त्वं चायमस्मात् पृथगिति प्रत्ययहेतुः । सङ्ख्या एको द्वौ वेत्यादिरूपा । संस्थानं परिमण्डलोऽयमित्यादिधीनिबन्धनम् 'एवेति पूरणे' संयोगा अयमङ्गल्योः संयोग इति व्यपदेशहेतवः । विभागाश्चायमितो विभक्त इति बुद्धिहेतवः । उभयत्र सम्बन्धिभेदापेक्षया बहुत्वम् 'चशब्दो नवपुराणाद्युपलक्षकः' । पर्यवाणां 'तुः पूरणे' लक्षणमसाधारणरूपम् । गुणानां रूपादिरूपाणां पर्यवत्वमतिप्रतीतत्वान्नोक्तम् ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org