________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
६८७ निराकृतम् । लक्षणं पर्यवाणां 'तुर्विशेषणे' उभयोर्द्वयोर्द्रव्यगुणयोराश्रिताः भवे' त्ति भवेयुः। तथा गुणेष्वपि नव-पुराणादिपर्यायाः प्रत्यक्षप्रतीता एव ॥६॥ द्रव्यस्य भेदानाह
धम्मो अहम्मो आगासं कालो पुग्गल जंतवो ।
एस लोगो त्ति पन्नत्तो जिणेहिं वरदंसिहि ॥७॥ व्याख्या-धर्म इति धर्मास्तिकायः । अधर्म इत्यधर्मास्तिकायः । आकाशमित्याकाशास्तिकायः । काल: समयादिरूपः । 'पुग्गल' त्ति पुद्गलास्तिकायः । जन्तव इति जीवास्तिकायः । 'एतानि द्रव्याणि इति शेषः' । एष इति सामान्यतो लोक इतीत्येवंस्वरूपोऽनन्तरोक्तद्रव्यषट्कात्मको देशितो जिनैर्वरदर्शिभिरिति पूर्ववत् ॥७॥ धर्मादिभेदानाह
धम्मो अहम्मो आगासं दव्वं इक्विक्कमाहियं ।
अणंताणि य दव्वाणि कालो पुग्गल जंतवो ॥८॥ व्याख्या-धर्म अधर्म आकाशं 'द्रव्यं' इति धर्मादिभिः प्रत्येकं योज्यन्ते । एकैकमेकसङ्ख्याया एवैतेषु भावादाख्यातम् 'अर्हद्भिरिति गम्यते' । अनन्तान्यनन्तसङ्ख्यानि स्वगतभेदानन्त्याच्च कालादीनि द्रव्याणि कालः पुद्गला जन्तवश्चोक्तरूपाः । कालस्य चानन्त्यमतीताद्यपेक्षयेति ॥८॥ एषां लक्षणभेदानाह
गइलक्खणो उ धम्मो अहम्मो ठाणलक्खणो ।
भायणं सव्वदव्वाणं नहं ओगाहलक्खणं ॥९॥ व्याख्या-गमनं गतिर्देशान्तरप्राप्तिर्लक्ष्यतेऽनेनेति लक्षणं ततश्च सा गतिर्लक्षणमस्येति गतिलक्षणस्तु धर्मो धर्मास्तिकायः । तथा अधर्मः अधर्मास्तिकाय: स्थितिः स्थानं गतिनिवृत्तिरित्यर्थस्तल्लक्षणमस्येति स्थानलक्षणः, स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्येण लक्ष्यते । भाजनमाधारः सर्वद्रव्याणां जीवादीनां नभ आकाशमवगाह: अवकाश: स लक्षणमस्येत्यवगाहलक्षणम्, तच्चावगाढुं प्रवृत्तानामालम्बनीभवत्यनेनावगाहकारणत्वं नभस इति ॥९॥
वत्तणालक्खणो कालो जीवो उवओगलक्खणो । नाणेणं दंसणेणं च सुहेण य दुहेण य ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org