________________
६८६
उत्तरज्झयणाणि-२ इह चारित्रभेदत्वेऽपि तपसः पृथगुपादानं कर्मक्षपणं प्रत्यसाधारणहेतुत्वख्यापकम् ॥२॥ एतदनुवादद्वारेण फलमाह
नाणं च दंसणं चेव चरित्तं च तवो तहा ।
एयं मग्गमणुप्पत्ता जीवा गच्छंति सोग्गइं ॥३॥ व्याख्या-पूर्वार्धं व्याख्यातमेव । एतमुक्तरूपं मार्गमनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिमर्थाद् मुक्तिमिति ॥३॥ ज्ञानभेदानाह
तत्थ पंचविहं नाणं सुयमाभिणिबोहियं ।
ओहिनाणं तइयं मणनाणं च केवलं ॥४॥ व्याख्या-तत्र ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानम् । प्रकारानेवाहश्रुतमिहाक्षरारूषितं भावश्रुतं गृह्यते । अभिमुखो नियतः स्वस्वविषयस्य बोधोऽभिनिबोधः स एवाभिनिबोधिकम् । अव इत्यधोऽधो विस्तृतविषयतया धावतीत्यवधिः, तदुपलक्षितं ज्ञानमप्यवधिः, ततोऽवधिश्चासौ ज्ञानं चावधिज्ञानं तृतीयम् । मनःशब्देन मनोद्रव्यपर्यायास्तेषु तत्तत्संज्ञिविकल्पहेतुषु ज्ञानं मनोज्ञानम् । केवलमेकं सकलमनन्तं च ज्ञानं केवलज्ञानम् । किञ्च नन्द्यादिषु सूत्रेषु मतिज्ञानस्य पूर्वोक्तत्वेऽपि यदिहादितः श्रुतग्रहणं तच्छेषज्ञानस्वरूपावबोधस्य प्रायस्तदधीनत्वेन प्राधान्यख्यापनार्थमिति ॥४॥ अथैषां ज्ञेयविशेषसम्बद्धतामाह
एवं पंचविहं नाणं दव्वाण य गुणाण य ।
पज्जवाणं च सव्वेसिं नाणं नाणीहिं देसियं ॥५॥ व्याख्या-एतत् पञ्चविधं ज्ञानं द्रव्याणां गुणानां पर्यवाणां च सर्वेषां ज्ञानमवबोधकं ज्ञानिभिरऽर्थात् केवलिभिर्देशितं कथितमिति ॥५॥ द्रव्यादीनां लक्षणान्याह
गुणाणमासओ दव्वं एगदव्वस्सिया गुणा ।
लक्खणं पज्जवाणं तु उभओ अस्सिया भवे ॥६॥ व्याख्या-गुणानामाश्रयो द्रव्यम्, अनेन रूपादय एव वस्तु न तदतिरिक्तमन्यदिति सौगतमतमपास्तम् । तथैकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन च ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्तान् रूपादींस्तन्मतं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org