SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशं मोक्षमार्गीयमध्ययनम् अथानन्तराध्ययनोक्ताऽशठताव्यवस्थितस्य मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमष्टाविंशमध्ययनमारभ्यते मोक्खमग्गगई तच्चं सुणेह जिणभासियं । चउकारणसंजुत्तं नाण-दसणलक्खणं ॥१॥ व्याख्या-मोक्षोऽष्टकर्मोच्छेदस्तस्य मार्गो ज्ञानादिस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्तां 'कथ्यमानामिति गम्यम्' 'तच्चं' ति तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणलक्षणानि तैः संयुक्ता चतुःकारणसंयुक्ता ताम् । इह च चतुःकारणसाध्यस्य कर्मक्षयरूपमोक्षस्यानन्तरभाविन्या गतेश्चतुःकारणवतीत्वं व्यवहारतः, यतः 'कारणकारणस्यात्र कारणत्वाभिधानम्' अतोऽनन्तरकारणस्य मोक्षस्य कारणं मार्गस्तस्यापि मार्गस्य गतिकारणत्वमेतद्विशेषणेनोक्तम् । ननु मोक्षमार्गेण गतिरिति विग्रहेण मार्गस्य गतिकारणत्वमुक्तमेवेति किं पुनरनेन विशेषणेनेति चेन्नानन्तरकारणस्यैव कारणत्वमिति निश्चयनिराकरणार्थत्वादस्य । तथा ज्ञान-दर्शने लक्षणं चिह्नं यस्याः सा तथा ताम् । यस्य हि ज्ञान-दर्शनसत्ता तस्यावश्यं भाविनी सिद्धिगतिरिति निश्चीयते । एतयोश्चतुष्कारणान्तर्गत्वेऽपि मूलकारणतां दर्शयितुमित्थमुपन्यासः ॥१॥ मोक्षमार्गमाह नाणं च दंसणं चेव चरित्तं च तवो तहा । एस मग्गो त्ति पन्नत्तो जिणेहिं वरदंसिहिं ॥२॥ व्याख्या-ज्ञानं यथास्थितवस्तुतत्त्वावबोधरूपं तच्च सम्यग्ज्ञानमेव । दर्शनं सम्यग्दर्शनमेव । चरित्रमपि सम्यक्चारित्रमेव । तपो बाह्याभ्यन्तरभेदभिन्नं 'तथा चः समुच्चये' ततः समुदितान्येवैतानि मोक्षमार्गगतेः कारणम् । एष एव मार्गः प्रज्ञप्तो मुक्तिप्रापकत्वेन प्ररूपितो जिनैर्वरमव्यभिचारितया सर्वं वस्तु द्रष्टुं शीलमेषां ते तथा तैः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy