________________
६८४
उत्तरज्झयणाणि-२ इत्थं कुशिष्यस्वरूपं परिभाव्य तैरेव प्रापितक्लमासमाधिर्गुरुर्यदचेष्टत तदाह
अह सारही व चिंतेइ खलुकेहि समागओ ।
किं मज्झ दुट्ठसीसेहिं अप्पा मे अवसीअई ॥१५॥ व्याख्या-अथ पूर्वोक्तचिन्ताऽनन्तरं सारथिरिव सारथिः 'धर्मयान इति प्रक्रमः' गर्गाचार्यो विचिन्तयति खलुङ्करिव खलुकैः शिष्यैः समागतः सहितः । किं ? न किञ्चिन्मम 'ऐहिकमामुष्मिकं वा प्रयोजनं सिध्यतीति गम्यम्' दुष्टशिष्यैः 'प्रक्रमात् प्रेरितैः' । केवलमात्मा मे ममावसीदति, एतत्प्रेरणादिव्यग्रतया स्वकृत्यहानेस्तत एतत्त्यागाद् वरमुद्यतविहारेणैव विहृतमिति भावः ॥१५।। अर्थतत्प्रेरणाऽन्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह
जारिसा मम सीसा उ तारिसा गलिगद्दहा ।
गलिगद्दहे चइत्ताणं दढं पगिन्हई तवं ॥१६॥ व्याख्या यादृशा मम शिष्याः 'तुः पूरणे' तादृशा गलिगर्दभाः 'यदि परमिति गम्यते' गर्दभग्रहणं कुत्साख्यापकम्, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्तन्ते ततस्तथैव कालो याति कुतस्तदन्तरालसम्भवः ? इति भावः । यतश्चैवमतो गलिगर्दभानिव गलिगर्दभान् दुःशिष्यांस्त्यक्त्वा दृढं प्रगृह्णाति स्वीकुरुते गर्गनामाऽऽचार्यस्तपोऽनशनादि ॥१६॥ ततः किमसौ कुरुते ? इत्याह
मिउ मद्दवसंपन्ने गंभीरे सुसमाहिए ।
विहरई महिं महप्पा सीलभूएण अप्पणा ॥१७॥ त्ति बेमि ॥ व्याख्या-मृदुर्बहिर्वृत्त्या विनयवान् मार्दवसम्पन्नोऽन्तःकरणतोऽपि तादृगेव । तत एव गम्भीरोऽलब्धमध्यः सुसमाहितः सुष्ट समाधिवान् विहरत्यप्रतिबद्धविहारेण महीं पृथ्वीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मनोपलक्षितः । यतः खलुङ्कतात्मनो गुरूणां चेहैव दोषहेतुरतस्तत्त्यागतोऽशठतैव सेव्येत्यध्ययनान्वयार्थः । इति ब्रवीमीति पूर्ववत् ॥१७॥ ग्रं० ८४ अ० २६॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
सप्तविंशं खलुङ्कीयमध्ययनं समाप्तम् ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org